________________
८७
गच्छाचारपइण्णयं ध्रुवताऽप्यस्ति, यथा-स्वर्णकङ्कणस्य भग्नत्वात् तस्य विनाशः केयूरस्य घटितत्वात् केयूरस्योत्पत्तिः स्वर्णस्यावस्थितत्वात् ध्रुवता, यद्वा तक्रयोगेन दुग्धस्य विनाशो दध्न उत्पत्तिः स्निग्धा ये पुद्गलाः ते तु ध्रुवाः, यद्वा जीवमेरुविमानादीनां द्रव्यास्तिकनयमतेन ध्रुवता । तथा 'उस्सग्गसुअं किंची, किंची अववाइअं भवे सुत्तं । किंची तदुभयसुत्तं, सुत्तस्स गमा मुणेअव्वा ।।१।।' उत्सर्गसूत्रं १ अपवादसूत्रं २ तदुभयसूत्रं द्विधा, उत्सर्गापवादिकं ३ अपवादोत्सर्गिकं ४ एते सूत्रस्य गमाः-प्रकाराश्चत्वारः, अथवा गमानामद्विरुच्चारणीयानि पदानि, तेनोत्सर्गोत्सर्गिकं ५, अपवादापवादिकं ६ । नो कल्पते साधोर्गोचरं पर्यटतो गृहद्वयापान्तराले निषीदनमित्युत्सर्गसूत्रं १, त्रयाणां पुनः कल्पते इत्यपवादसूत्रं २, नो कप्पइ राओ वा विआले वा सेज्जासंथारयं पडिगाहित्तए, नन्नत्थ एगेणं पुव्वपडिलेहिएणं सिज्जासंथारएणं, इदमुत्सर्गापवादिकं ३, यत्पुनर्निग्रन्थीनां कल्पते पक्वं तालपलम्ब विधिभिन्नं नाविधिभिन्नमित्यपवादोत्सर्गिकं ४, नो कप्पइ असणं वा ४ पढमाए पोरिसीए पडिगाहित्ता पच्छिमं पोरिसं उवाइणावित्तए से अ आहच्च उवाइणा विएसिआ जो तं भुंजइ भुंजतं वा साइज्जइ से आवज्जइ चाउमासिअं परिहारट्ठाणमित्युत्सर्गौत्सर्गिकं ५, तथा येषु सूत्रेषु अपवादो भणितस्तेष्वेवार्थतः पुनरनुज्ञा प्रवर्त्तते तानि अपवादापवादिकानि सूत्राणि ६, इति श्रीबृहत्कल्पवृत्तौ, इयं च सूत्रषड्भङ्गी श्रीनिशीथचूर्णिषोडशोद्देशकेऽप्यस्ति । तथा नेगम १ संगह २ ववहारु ३ ज्जुसुए ४ चेव होइ बोधव्वे । सद्दे ५ अ समभिरूढे ६, एवंभूए अ मूलनया ।।१।।' तत्थ ‘णेगेहिं माणेहिं, मिणइ त्ति (य) णेगमस्स य निरुत्ती । सेसाणंपि नयाणं, लक्खणमिणमो सुणह वुच्छं ।।२।। नैकैर्मानैर्महासत्तासामान्यविशेषादिनिर्मिमीते मिनोति वा वस्तूनि परिछिनत्तीति नैगम इतीयं नैगमस्य निरुक्तियुत्पत्तिः १, संगहियपिंडियत्थं, संगहवयणं समासओ बिंति २ । वज्जंति विणिच्छयत्थं, ववहारो सव्वदव्वेसु