________________
__
८४
गच्छाचारपइण्णयं अनुष्टुप्छन्दः ||४०।।
इति श्रीमत्तपागच्छनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्चञ्चरीकायमाणपण्डितश्रीविजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायामाचार्यस्वरूपनिरूपणाधिकारः प्रथमः ।।
प्रपञ्चितमाचार्यस्वरूपम् । अथ क्रमप्राप्तं यतिस्वरूपं प्रपञ्च्यते । तत्रापि प्रथमं येन मुनिना छद्मस्थेनापि साकं केवली विहरेत् तत्स्वरूपं गाथाद्वयेनाह
गीअत्थे जे सुसंविग्गे, अणालस्सी दढव्वए । अक्खलियचरित्ते सययं, रागद्दोसविवज्जिए ।।४१ ।। गीतार्थो यो सुसंविज्ञः अनालस्यी दृढव्रतः । अस्खलितचारित्रः सततं, रागद्वेषविवर्जितः ॥४१॥ निट्ठविअअट्ठमयठाणे, सोसिअकसाए जिइंदिए । विहरिज्जा तेण सद्धिं तु, छउमत्थेणवि केवली ।।४२ ।। निष्ठापिताष्टमदस्थानः शोषितकषायो जितेन्द्रियः । विहरेत्तेन सार्धं तु छद्मस्थेनापि केवली ॥४२॥
अनयोर्व्याख्या-गीतः-परिज्ञातोऽर्थ छेदसूत्रस्य येन स गीतार्थः, यता गीतार्थावस्य विद्येते इत्यभ्रादित्वादप्रत्यये गीतार्थः । तत्र गीतं सूत्रं अर्थस्तद्व्याख्यानम् । उक्तं च श्रीबृहत्कल्पभाष्यपीठिकायां-'गीअं मुणितेगटुं, विदिअत्थं खलु वयंति गीयत्थं । गीएण य अत्येण य, गीअत्थो वा सुअं गीअं ।।१।। गीएण होइ गीई, अत्थी अत्थेण होइ नायव्यो । गीएण य अत्थेण य, गीअत्थं तं विआणाहि ।।२।।' यः 'सुसंविग्गोत्ति अत्यर्थं संवेगवान्, आलस्यमस्यास्तीति आलस्यी न आलस्यी अनालस्यी