________________
गच्छाचारपइण्णयं आलस्यरहित इत्यर्थः । दृढानि-निश्चलानि व्रतानि-नियमा उत्तरगुणा इति यस्यासौ दृढव्रतः, अस्खलितं-अतीचाररहितं चारित्रं-मूलगुणरूपं यस्यासौ अस्खलितचारित्रः, सततं-अनवरतं रागद्वेषविवर्जितस्तत्र मायालोभात्मको रागः, क्रोधमानात्मको द्वेष इति, निष्ठापितानि-क्षयं नीतान्यष्टौ मदस्थानानि-मानभेदा जातिकुलरूपबललाभश्रुततपोविभवमदाख्या येनासौ निष्ठापिताष्टमदस्थानः, शोषिताः-कृशीकृताः कषायाःसभेदाः क्रोधमानमायालोभाख्याः, नोकषाया वा येनासौ शोषितकषायः, जितान्यात्मवशीकृतानीन्द्रियाणि श्रोत्रदृग्नासाजिह्वात्वग्मनोरूपाणि येनासौ जितेन्द्रियः स्यादिति शेषः । एवंविधेन तेन छद्मस्थेनापि सार्द्ध केवलंएकं ज्ञानमस्यास्तीति केवली विहरेत्-विचरेत्, तुशब्दादेकत्र वसेदपि यद्वा तेन छद्मस्थेन सार्द्ध केवल्यपि विहरेत् छद्मस्थस्तु तेन सार्द्धं सुतरां विहरेदित्यर्थः । इति विषमाक्षरेति लक्षणे गाथाछन्दसि ।।४१।।४२ ।। अथ यैः सह विहारादि न विधीयते तानाह
जे अणहीअपरमत्थे, गोअमा संजए भवे । तम्हा ते वि विवजिज्जा, दुग्गइपंथदायगे ।।४३।। येऽनधीतपरमार्था, गौतम ! संयता भवन्ति । तस्मात्तानपि विवर्जयेत दुर्गतिपथदायकान् ।।३।।
व्याख्या-हे गौतम ! ये संयता अपि-संयमवन्तोऽपि 'अणहीअपरमत्थ' त्ति अनधीता-अनभ्यस्ताः परमार्थाः-आगमरहस्यानि यैस्ते अनधीतपरमार्था अगीतार्था इत्यर्थः । यत्-यस्मात् अज्ञातद्रव्यक्षेत्रकालभावौचित्या भवन्तीति शेषः, तस्मात् तान् अगीतार्थान् विवर्जयेत्-विहारे एकत्र निवासे वा दूरतस्त्यजेत् । अपि शब्दोऽत्र भिन्नक्रमः, स च यथास्थानं योजित एव । किंभूतान् तान् दुर्गतिपथदायकान्-तिर्यग्नारककुमानुषकुदेवरूपदुर्गतिमार्गप्रापकानित्यर्थः । अत्रागमरहस्यानि कानिचिद्दर्श्यन्ते । यथा-'जे आसवा