________________
गच्छाचारपइण्णयं 'तम्हा उत्ति तस्मादेव कारणात्प्रतिपृच्छाभिश्चोदनाभिश्चाचार्यो विनेयान सदा-सर्वकालं 'भयइ' त्ति भजते-सत्यापयति शिक्षयतीत्यर्थः । गाथाछन्दः ||३८ ।। अथ नोदनाया अकर्तुः फलं दर्शयन्नाह
जो उ पमायदोसेणं, आलस्सेणं तहेव य । सीसवग्गं न चोएइ, तेण आणा विराहिया ।।३९ ।। यस्तु प्रमाददोषेणालस्येन तथैव च । शिष्यवर्गं न प्रेरयति तेनाज्ञा विराधिता ॥३९॥
व्याख्या-यो गणी तुशब्दादुपाध्यायादिः प्रमाददोषेण प्रमादरूपो यो दोषस्तेन आलस्येन तथैव च चकारादुक्तशेधैर्मोहादिभिश्च उक्तं च'आलस्स १ मोह २ वन्ना ३, थंभा ४ कोहा ५ पमाय ६ किविणत्ता ७ । भय ८ सोगा ९ अन्नाणा १०, वक्खेव ११ कुऊहला १२ रमणा १३ ।।१।। एतैर्हेतुभिः शिष्यवर्ग अन्तेवासिवृन्दं न प्रेरयति मोक्षानुष्ठान इति शेषः, तेनाचार्येणोपाध्यायेन वा 'आज्ञ(ण) 'त्ति जिनाज्ञा विराधिताखण्डितेत्यर्थः । अनुष्टुप्छन्दः ||३९ || अथ गुरुलक्षणमुपसंहरन् गच्छलक्षणं च विवक्षुराह
संखेवेणं मए सोम, वन्नियं गुरुलक्खणं । गच्छस्स लक्खणं धीर, संखेवेणं निसामय ।।४०।। संक्षेपेण मया सौम्य ! वणितं गुरुलक्षणम् । गच्छस्य लक्षणं धीर ! संक्षेपेन निशामय ॥४०॥
व्याख्या-सङ्क्षपेण-विस्तराभावेन मया हे सौम्य ! हे गौतम ! वर्णितंप्ररूपितमित्यर्थः गृणाति-वदति तत्त्वमिति गुरुस्तस्य लक्षणं-चिन्हं, अथेति शेषः गच्छस्य-यतियत्तिनीसमुदायलक्षणस्य लक्षणं धिया राजत इति धीरस्तस्य सम्बोधनं क्रियते हे धीर ! सङ्क्षपेण निशमय-आकर्णयेति ।