________________
गच्छाचारपइण्णयं
नाममात्रग्रहणेनापि पराहितकारिणः सूरयस्तानाह
ती आणागयकाले, केई होहिंति गोयमा सूरी । जेसिं नामग्गहणे वि, होइ नियमेण पच्छित्तं ।। ३७ ।। अतीतानागतकाले, केचिद्भविष्यन्ति गौतम ! सूरयः । येषां नामग्रहणेऽपि, भवति नियमेन प्रायश्चित्तम् ||३७||
८२
व्याख्या-अतीतकाले ते केचिदनिर्दिष्टनामानोऽभूवन्निति शेषः, अनागतकाले च होहिति-भविष्यन्ति, 'आद्यन्तग्रहणे मध्यस्यापि ग्रहणं' इति न्यायेन वर्त्तमानकाले च सन्ति । हे गौतम ! सूरयः- आचार्या नामधारकाः, येषां परिचयकरणादिकं दूरे आस्ताम्, नामग्रहणेऽपि भवति नियमेन - निश्चयेन प्रायश्चित्तम् । तथा चोक्तं श्रीमहानिशीथपञ्चमाध्ययने 'इत्थं चायरियाणं, पणपण्णं होंति कोडिलक्खाओ । कोडिसहस्से कोडी, सए य तह एत्तिए चेव ।। १ ।। एतेसि मज्झाओ, एगे निव्वुड्डुइ गुणगणाइण्णे । सव्वुत्तमभंगेणं, तित्थयरस्साणुसारिगुरू ।।२।। इति गाथाछन्दः ।।३७।। अथात्र हेतुमाह
जओ, सयरी भवंति अणविरकयाइ, जह भिच्चवाहणा लोए । पडिपुच्छाहिं चोयण, तम्हा उ गुरू सया भयइ ।।३८।। यतः स्वेच्छाचारीणि भवन्ति, अनपेक्षया यथा भृत्यवाहनानि लोके । प्रतिपृच्छाभिश्चोदनाभिः, तस्मात्तु गुरुः सदा भजते ||३८||
व्याख्या - 'जओ'त्ति भिन्नं पदं, यतो भणितं, 'सयरित्ति स्वेच्छाचारीणि भवन्ति 'अणविक्खयाइ 'त्ति अनपेक्षया - शिक्षारहितत्वेन यथा लोके ‘भिच्चवाहण— त्ति भृत्याश्च - सेवका वाहनानि च - हस्त्यश्ववृषभमहिषादीनि इतिद्वन्द्वे भृत्यवाहनानि तथा विनेया गुरूणां प्रतिपृच्छाभिः कार्यं कार्यं प्रतिपृच्छा प्रतिपृच्छा ताभिः 'चोयण' त्ति प्राकृतत्वाद्विभक्तिलोपः, चोदनाभिश्च विनेति शेषः स्वेच्छाचारिणो भवन्तीत्यर्थः । यस्मात्स्वेच्छाचारिणो भवन्ति,
"