SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८१ गच्छाचारपइण्णयं सन्मार्गमार्गसंप्रस्थितानां, साधूनां करोति वात्सल्यम् । औषधभैषज्यैश्च स्वयं अन्येन तु कारयति ॥३५।। व्याख्या-सन्मार्गसमार्गसंप्रस्थिताना-सन्मुनिमार्गे सम्यक्प्रवृत्तानां साधूनांमुनीनां करोति-विधत्ते स्वयं-आत्मना वात्सल्यं-समाधिसम्पादनं अधिकारात्संविग्नपाक्षिकः, कैः ? औषधभैषज्यैस्तत्रौषधानिकेवलद्रव्यरूपाणि बहिरुपयोगीनि वा, भैषज्यानि-सांयोगिकानि अन्तर्भोग्यानि वा, चशब्दोऽनेकान्यप्रकारसूचकः । तथाऽन्ये-आत्मव्यतिरिक्तेन कारयति, तुशब्दात् कुर्वन्तमन्यमनुजानातीति । गाथाछन्दः ||३५।। अथाधिकारात् परवात्सल्यकारिणामतिस्तोकतामाहभूए अत्थि भविस्संति, केइ तेलुक्कनमिअकमजुअला । जेसिं परहिअकरणिक्क-बद्धलक्खाण वोलिही कालो ।।३६।। भूताः सन्ति भविष्यन्ति, केचित् त्रैलोक्यनतक्रमयुगलाः । येषां परहितकरणैकबद्धलक्षाणां व्यतिचक्राम कालः ॥३६।। व्याख्या-भूता-अतीतकाले 'अत्थि'त्ति सन्ति-विद्यन्ते वर्तमानकाले भविष्यन्ति-भविष्यत्काले केचिदतिस्तोका एव, ते पुरुषाः किभूताः ? त्रैलोक्येन-स्वर्गमर्त्यपाताललक्षणेन तन्निवासिप्राणिगणेनेत्यर्थः, नतं क्रमयुगलं येषां ते त्रैलोक्यनतक्रमयुगलाः, ते के ? येषां परहितकरणैकबद्धलक्षाणां परेषां-अन्येषां हितं-वात्सल्यं परहितं, परहितस्य करणं परहितकरणं तस्मिन्, एकं-अद्वितीयं बद्धं लक्षं-वेध्यं तस्य च लयहेतुत्वेन कारणे कार्योपचाराल्लयो यैस्ते परहितकरणैकबद्धलक्षास्तेषां परहितकरणैकबद्धलक्षाणां एवंविधानां सतां 'वोलिहित्ति प्राकृतत्वात् व्यतिचक्राम व्यतिक्रामति व्यतिक्रमिष्यति वा कालः समयादिलक्षण इति । गीतिछन्दः । तल्लक्षणं चेदम्-'आर्याप्रथमदलोक्तं, यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां, तां गीतिं गीतवान् भुजङ्गेशः' ।।३६ ।। अथ ये
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy