SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७५ गच्छाचारपइण्णयं उन्मार्गमार्गसम्प्रस्थितानां साधूनां गौतम ! नूनम् । संसारश्चानन्तो भवति सन्मार्गनाशिनाम् ॥३१॥ व्याख्या-उन्मार्गा-गोशालकबोटिकनिन्हवादयः तेषां मार्गः-परम्परा तस्मिन् अथवा उन्मार्गरूपो यो मार्गस्तस्मिन् समिति-एकीभावेन प्रइतिप्रकर्षेण स्थितानां साधूनां-साधुलिङ्गधारकाणां हे गौतम ! नूनं-निश्चितं संसारश्चतुर्गत्यात्मकः अनन्तो-अपर्यन्तो भवति | च शब्दस्तद्गतानेकदुःखसूचकः । किं भूतानां तेषां ? सन्मार्गनाशिनां-शुद्धपथोच्छेदकानां महानिशीथोक्तमुनिचन्द्रसाधुवत् इति | गाथाछन्दः ।।३१।। अथ कथञ्चित् स्वयं प्रमादवानपि शुद्धमार्ग प्ररूपयन् कस्मिन् पक्षे आत्मानं स्थापयतीत्याह सुद्धं सुसाहुमग्गं, कहमाणो ठवइ तइअपरकम्मि । अप्पाणं इयरो पुण, गिहत्थधम्माउ चुक्कत्ति ।।३२ ।। शुद्धं सुसाधुमार्ग कथयन् स्थापयति तृतीयपक्षे । आत्मनमितरः पुनो गृहस्थधर्माद्धृष्ट इति ॥३२॥ व्याख्या-शुद्धं-अवितथं सुसाधुमार्ग-सन्मुनिपथं कथयन्-प्ररूपयन् स्वयं प्रमादवानपीति गम्यते स्थापयति-निवेशयति आत्मानं क्क ? साधुश्राद्धपक्षद्वयापेक्षया तृतीयपक्षे-संविग्नपाक्षिकरूपे इतरो-अशुद्धमार्गप्ररूपकः पुनः 'गिहत्थधम्माउ' त्ति गृहस्थधर्मादाद्यतिधर्मात्संविग्नपाक्षिकपथाच्च 'चुक्क' त्ति भ्रष्टः संसारपथत्रयान्तर्वर्तीत्यर्थः । इति शब्दो वाक्यपरिसमाप्त्यर्थः । अत्र प्रसङ्गतः पक्षत्रयमाश्रित्य किञ्चिदुच्यते 'सुज्झइ जई सुचरणो १, सुज्झइ सुस्सावओ वि गुणकलिओ २ । ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ।।१।। संविग्गपक्खियाणं, लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि, जेण कम्मं विसोहंति ||२|| सुद्धं सुसाहुधम्मं, कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ, होइ य सव्वमराइणिओ ||३|| वंदइ न य वंदावइ, किइकम्मं कुणइ कारवे नेव । अत्तट्ठा न वि
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy