SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं अर्थतेषां त्रयाणां सेवकस्याशुभफलमाह- . . उम्मग्गठिए सम्मग्ग-नासए जो उ सेवए सूरी । निअमेणं सो गोअम ! अप्पं पाडेइ संसारे ।।२९।। उन्मार्गस्थितान् सन्मार्गनाशकान् यस्तु सेवते सूरीन् । नियमेन स गौतम ! आत्मानं पातयति संसारे ॥२९॥ व्याख्या-उन्मार्गस्थितान् सन्मार्गनाशकान् १ तुशब्दात् भ्रष्टाचारान् २ भ्रष्टाचारोपेक्षकांश्च ३ सूरीन् यः सेवते-पर्युपास्ते नियमेन-निश्चयेन स नरो हे गौतम ! आत्मानं पातयति, संसारे-चतुर्गत्यात्मके इति । गाथाछन्दः ||२९ ।। अथ भङ्ग्यन्तरेण एनमेवार्थं दृष्टान्तेन समर्थयन्नाह उम्मग्गठिओ एक्को, विनासए भव्वसत्तसंघाए । तं मग्गमणुसरंतं, जह कुत्तारो नरो होइ ।।३०।। उन्मार्गस्थित एकोऽपि नाशयति भव्यसत्त्वसङ्घातान् । तन्मार्गमनुसरन्तः यथा कुतारो नरो भवति ॥३०॥ व्याख्या-उन्मार्गस्थितः-उत्सूत्रप्ररूपणानिरतः एकोऽपि अधिकारात् सूरिर्नाशयति-संसारसमुद्रे अनन्तानन्तमरणप्रदानेन विनाशयतीत्यर्थः, कान् भव्यसत्त्वसङ्घातान् किं कुर्वतस्तान् तन्मार्ग-उन्मार्गस्थितप्रदर्शितपथं अनुसरतः-आश्रयतः प्राकृतत्वाद्वचनव्यत्ययः । अत्र दृष्टान्तमाह-यथा कुतारः कुत्सिततारको नरो भवति । स बहून् पृष्टिलग्नान् जन्तुसमूहान् नद्यादौ विनाशयतीति, गाथाछन्दः ||३० ।। अथोन्मार्गगामिनामेवाशुभफलं दर्शयति उम्मग्गमग्गसंपढिआण, साहूण गोअमा ! नूणं । संसारो अ अणंतो, होई संमग्गनासीणं ।।३१।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy