________________
...
७२
गच्छाचारपइण्णयं मासौ चत्वारि दिनानि जीवित्वा १२, मृतो व्यन्तरेषुत्पन्नः १३, ततः सूनाधिपो मनुष्यः १४, ततः स्पतम्यां १५, ततश्चाक्रिकगृहे वृषभो वाह्यमानः क्वथितस्कन्धो मुक्तो गृहस्वामिना काककृमिश्वानादिभिर्विलुप्यमानः २९ वषायुम॒तो १६, बहुव्याधिमानिभ्यपुत्रो वमनविरेचनादिदुःखैरेवास्य गतो मनुष्यभवः १७, एवं चतुर्दशरज्ज्वात्मकं लोकं जन्ममरणैः परिपूर्य अनन्तकालेनाऽपरविदेहे मनुष्योऽभवत् । तत्र लोकानुवृत्त्या गतस्तीर्थकरवन्दनाय, प्रतिबुद्धः, सिद्ध अत्र त्रयोविंशतितमश्रीपार्श्वजिनस्य काले । गौतमोऽप्राक्षीत्-किं निमित्तमनेन दुःखमनुभूतं ? गौतम ! उत्सर्गापवादैरागमः इत्यादि यद्भणितं तन्निमित्तम् । यद्यपि प्रवचने उत्सर्गापवादौ अनेकान्तश्च प्रज्ञाप्यन्ते, तथापि अप्कायपरिभोगस्तेजः कायपरिभोगो मैथुनसेवनं चैकान्तेन निषिद्धानि, इत्थं सूत्रातिक्रमादुन्मार्गप्रकटनं ततश्चाज्ञाभङ्गः, तस्माच्चानन्तसंसारी । गौतमोऽप्राक्षीत्-किं तेन सावद्याचार्येण मैथुनमासेवितम् ? गौतम ! नो सेवितं नोऽसेवितम्, यतस्तेन वन्दमानार्यास्पर्श पादौ नाकुञ्चितौ । भगवन् ! तेन तीर्थकर नामकाजितं एकभवावशेषीकृतश्चासीद्भवोदधिः, तत्कथमनन्तसंसारं सम्भ्रान्तः ? गौतम ! निजप्रमाददोषात्, यतः सिद्धान्तेऽप्युक्तमस्ति-'चोद्दसपुव्वी आहारगावि, मणनाणिवीयरागा य । हुँति पमायपरवसा, तयणंतरमेव चउगइआ ||१||' इत्यादि । तस्माद् गच्छाधिपतिना सर्वदा सर्वार्थेषु अप्रमत्तेन भाव्यम् । इति पूर्वाचार्यसंस्कृतसावद्याचार्यसम्बन्धः । तथा 'जे णं मडुआ ! अटुं वा हेउं वा पसिणं वा वागरणं वा अन्नायं वा अदिटुं वा अस्सुयं वा अपरिन्नायं वा बहुजणमज्झे आघवेइ पण्णवेइ परूवेइ दंसेइ निदंसेइ उवदंसेइ, से णं अरिहंताणं आसायणाए वट्टइ, अरिहंतपण्णत्तस्स धम्मस्स आसायणाए वट्टइ, केवलीणं आसयणाए वट्टइ, केवलिपण्णत्तस्स धम्मस्स आसायणाए वट्टइ' इति श्रीभगवत्यां अष्टादशशतकस्याष्टमोद्देशके || तथा 'इच्चेइयं