________________
७१
गच्छाचारपइण्णयं आचार्यादिना किमपि पापस्थानं न सेवनीयं त्रिविधं त्रिविधेन यः सेवते सोऽनन्तसंसारं भ्राम्यति । तैर्विलक्षं दृष्ट्वोचे किं न वक्ष्यसि । स दध्यौ किं वदामि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तम्- अयोग्यस्य श्रुतार्थो न दातव्यः 'आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ||१||' इत्यादि तैरुचे - किमसम्बद्धं भाषसे, अपसर दृष्टिपथात् । अहो त्वमपि सङ्घेन प्रमाणीकृतोऽसि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तं, उत्सर्गापवादैरागमः स्थितो यूयं न जानीथ । ‘एगंतं मिच्छत्तं जिणाण आणा अणेगत्तं । तैर्धृष्टैर्मानितं ततः स प्रशंसितः । स एकवचनदोषेणानन्तसंसारित्वमुपार्ज्याऽप्रतिक्रान्तो मृत्वा व्यन्तरो बभूव १ । ततश्च्युत्वोत्पन्नः प्रोषितपतिकायाः प्रतिवासुदेवपुरोहितदुहितुः कुक्षौ कुलकलङ्कभीताभ्यां पितृभ्यां निविषयीकृता सा क्वापि स्थानमलभमाना दुर्भिक्षे कल्पपालगृहे दासीत्वेन स्थिता मद्यमांसदोहदोऽस्याः सञ्जातः । बहूनां मद्यपायकानां भाजनेषूच्छिष्टे मद्यमांसे च भुङ्क्ते कांस्यदृष्यद्रविणानि चोरयित्वाऽन्यत्र विक्रीय मद्यमांसे भुङ्क्ते । गृहस्वामिना राज्ञो निवेदितम् । राज्ञा मारणाय प्रसूतिसमयं यावद्रक्षितुमर्पिता चण्डालानां, अप्रसूता न हन्यते इति तत्कुलधर्म्मत्वात् । प्रसूता बालकं त्यक्त्वा नष्टा । राज्ञा पञ्चसहस्रद्रविणदानेन बालः पालितः । क्रमात् सूनाधिपतौ मृते राज्ञा स एव तद्गृहस्वामी कृतः पञ्चशतानामीशः २ । ततो मृत्वा सप्तमपृथिव्यां ३३ सागरायुः ३ । तत उद्धृत्यान्तरद्वीपे एकोरुकजातिर्जातः ४ । ततो मृत्वा महिषः २६ वर्षायुः ५. ततो मनुष्यः ६, ततो वासुदेवः ७ ततः सप्तमपृथिव्यां ८ ततो गजकर्णो मनुष्यो मांसाहारी ९ ततो मृत्वा सप्तमपृथिव्यामप्रतिष्ठाने गतः १०, ततो महिषः ११, ततो बालविधवाबन्धकीब्राह्मणसुताकुक्षावुत्पन्नः, गर्भशातनपातनक्षारचूर्णयोगैरनेकव्याधिपरिगतो गलत्कुष्टी कृमिभिर्भक्ष्यमाणो गर्भान्निर्गतः लोकैर्निन्द्यमानः क्षुधादिपीडितो दुःखी सप्तवर्षशतानि द्वौ
·
,