SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं विहारो, सबालवुड्ढस्स गच्छस्स ।।१।।' आचारप्रकल्पधरा-निशीथाध्ययनधारिणो जघन्या गीतार्थाश्चतुर्द्दशपूर्विणः पुनरुत्कृष्टास्तन्मध्यवर्त्तिनः कल्पव्यवहारदशाश्रुतस्कन्धधरादयो मध्यमास्तेषां जघन्यमध्यमोत्कृष्टानां गीतार्थानां निश्रया सबालवृद्धस्यापि गच्छस्य विहारो भवति न पुनरगीतार्थस्य स्वच्छन्दमेकाकिविहारः कर्तुं युक्तः, कुत इति चेत् ? उच्यते-' एगविहारी अज्जाय-कप्पिओ जो भवे चवणकप्पे । उवसंपन्नो मंदो, होहिइ वोसट्ठतिट्ठाणो ।।१।।' एकः सन विहरतीत्येवं शील एकविहारी स च अजातकल्पिकोऽगीतार्थस्तथा च्यवनं चारित्रात् प्रतिपतनं तस्य कल्पःप्रकारश्च्यवनकल्पः पार्श्वस्थादिविहार इत्यर्थः, तस्मिन् यो भवेत् स एकाकित्वमुपसम्पन्नः- प्रतिपन्नः सन् मन्दः - सद्बुद्धिविकलो भविष्यति व्युत्सृष्टत्रिस्थानः व्युत्सृष्टानि परित्यक्तानि त्रीणि स्थानानि ज्ञानादिरूपाणि येन स व्युत्सृष्टत्रिस्थानः । एषा निर्युक्तिगाथा अथैनामेव विवृणोति - 'मुत्तूण गच्छनिग्गय, गीयरस वि एक्कगस्स मासो उ । अविगीए चउगुरुगा, चवणे लहुगा य भंगट्ठा ।।१|| मुक्त्वा गच्छनिर्गतान्-जिनकल्पिकादीन् गीतार्थस्यापि एककस्य- एकाकिविहारं कुर्वतो मासलघु अविगीते -अगीतार्थे एकाकिविहारिणि चत्वारो गुरुकाः च्यवने- पार्श्वस्थादिविहारे यदि मनसाऽपि सङ्कल्पं कुरुते तदा चत्वारो लघुकाः, इत्यादि श्रीबृहत्कल्पवृत्तिपीठिकायां तथा व्यवहारवृत्तिद्वितीयोद्देशकेऽपि 'गीअत्थो अ विहारो, बीओ गीअत्थनिस्सिओ भणिओ । इत्तो तइअविहारो नाणुन्नाओ जिणवरेहि ।।१।।' विहारः प्रथमो भवति गीतार्थः गीतार्थसाध्वात्मकः, द्वितीयो गीतार्थनिश्रितः गीतार्थस्य निश्रा-संश्रयणं गीतार्थनिश्रा सा सञ्जाता, अस्य पाठान्तरं गीतार्थमिश्रित इति, तत्र गीतार्थसंयुक्त इति व्याख्येयमिति, आभ्यां गीतार्थगीतार्थनिश्रिताभ्यामन्यस्तृतीयो विहारो नानुज्ञातो जिनवरेन्द्रैरित्यादि । तथौघनिर्युक्तावपि यथा-' गीयत्थो अ विहारो, बीओ गीअत्थनिस्सिओ भणिओ । इत्तो तइअविहारो, नाणुन्नाओ जिणवरेहिं ६४
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy