SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६३ गच्छाचारपइण्णयं केवलेन सम्यक्पठितेन गीतमस्यास्तीति गीति भवति, अर्थेन केवलेन सम्यगधिगतेनार्थी भवति ज्ञातव्य अर्थधर इत्युक्तं भवति, यस्तु गीतेन चार्थेन चोभयतोऽपि युक्तस्तं गीतार्थं विजानीहि इति । इदमत्र तात्पर्यम्तृतीयभङ्गवत्त्यैव तत्त्वतो गीतार्थशब्दमविकलमुद्बोहुमर्हति न प्रथमद्वितीयभङ्गवर्त्तिनाविति । अथ येषां गीतार्थानां तन्निश्रितानां वा विहारो भवति तान् दर्शयति-‘जिणकप्पिओ गीयत्थो, परिहारविसुद्धिओ वि गीयत्थो । गीयत्थे इड्डिदुगं, सेसा गीयत्थनीसाए ||9||' जिनकल्पिको नियमाद् गीतार्थः, परिहारविशुद्धिकोऽपिशब्दात् प्रतिमाप्रतिपन्नको यथालन्दकल्पिकश्चावश्यन्तया गीतार्थः, जघन्यतोऽप्यधीतनवमपूर्वान्तर्गताचारनामकतृतीयवस्तुकत्वादेषामिति । तथा गच्छे गीतार्थविषयमृद्धिमतोराचार्योपाध्याययोर्द्विकं द्रष्टव्यम्, सूत्रे मतुलोपः प्राकृतत्वात् । आचार्य उपाध्यायो वा नियमाद् गीतार्थ इत्यर्थः । एषां सर्वेषामपि स्वातन्त्र्येण विहारो विज्ञेयः । शेषाः साधवो गीतार्थनिश्रया आचार्योपाध्यायलक्षणगीतार्थपारन्त्र्येण विहरन्ति इदमेव पश्चार्द्धं भावयति - 'आयरियगणी इड्डी, सेसा गीता वि होंति तन्नीसा । गच्छगयनिग्गया वा, ठाणनिउत्ताऽनिउत्ता वा ।।१।। आचार्यः-सूरिः गणी - उपाध्यायः एतौ यत ऋद्धिमन्तौ - सातिशयज्ञानादिऋद्धिसम्पन्नौ अतिशायनेऽत्र मत्वर्थी यः यथारूपवती कन्येत्यादौ अतः शेषाः साधवो गीतार्था अपि तन्निश्रया आचार्योपाध्यायपरतन्त्रतया विहरन्ति । अथ के ते शेषा इत्याह-गच्छगता गच्छनिर्गता वा तत्र गच्छगतागच्छमध्यवर्त्तिनः गच्छनिर्गता 'असिवे ओमोअरिए' इत्यादिभिः कारणैरेकाकीभूताः, अथवा स्थाननियुक्ताः स्थानानियुक्ता वा स्थाने-पदे नियुक्ता-व्यापारिताः स्थाननियुक्ताः प्रवर्त्तकस्थविरगणावच्छेदकाख्याः पदस्थगीतार्था इत्यर्थः । तद्विपरीताः स्थानानियुक्ताः सामान्यसाधव इत्यर्थः । एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति । कथमित्याह-‘आयारपकप्पधरा, चोद्दसपुव्वी अ जे य तं मज्झा । तन्नीसाइ
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy