________________
गच्छाचारपइण्णय सीदयति विहारं सुखशीलगुणैर्योऽबुद्धिकः । स नवरि लिङ्गधारी संयमयोगेन निस्सारः ॥२३॥
व्याख्या - 'जो अबुद्धीओ' त्ति य आचार्योऽबुद्धिकस्तत्त्वज्ञानरहितः 'सीयावेइ'त्ति सीदयति-शिथिलीकरोति, कं विहारं नवकल्परूपं गीतार्थादिरूपं च कैः सुखशीलगुणैः सुखशीलस्य-शाताभिलाषिणो गुणाः पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैः अत्र किञ्चिद्विहारस्वरूपं वृहत्कल्पसूत्रतो यथा- ‘से गामंसि वा जाव पुडभेयणंसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथाणं हेमंतगिम्हासु एक्कं मासं वत्थए' सुगमं नवरं सपरिक्षेपे वृत्त्यादिरूपपरिक्षेपयुक्ते प्राकारबहिर्वत्तिनी गृहपद्धतिर्बाहिरिका न विद्यते बाहिरिका यत्र तदबाहिरिकं तस्मिन् ‘से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथाणं हेमंतगिम्हासु दोमासे वत्थए, अंतो एक्कं मासं बाहिं एक्कं मासं, अंतोवसमाणाणं अंतोभिक्खायरिया बाहिंवसमाणाणं बाहिंभिक्खायरिया । से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथीणं हेमंतगिम्हासु दोमासे वत्थए । से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथीणं हेमंतगिम्हासु चत्तारि मासे वत्थए, अंतो दोमासे बाहिं दो मासे, अंतो वसंतीणं अंतो भिक्खायरिया बाहिं वसंतीणं बाहिं भिक्खायरिया । कप्पइ निग्गंथाण वा २ पुरत्थिमे णं जाव अंगमगहाओ एत्तए १, दक्खिणे णं कप्पइ निग्गंथाण वा निग्गंथीण वा जाव कोसंबीओ एत्तए २. पच्चत्थिमे णं जाव थूणा विसयाओ एत्तए ३, उत्तरे णं जाव कुणालाविसयाओ एत्तए ४, एतावता व कप्पइ एतावता व आयरियखेत्ते णो से कप्पइ एत्तो बाहिं, तेण परं जत्थ णाणदंसणचरित्ताई उस्सप्पंति ।' सुगमम् । नवरं एत्तए विहर्तुं 'तेण परं' ति ततः परं बहिर्देशेषु यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्तिस्फीतिमासादयन्ति तत्र विहर्त्तव्यमिति श्रीवृहत्कल्पप्रथमोद्देशके । किञ्चाचरणया तु