________________
गच्छाचारपइण्णयं
एको ह्रदः परिगलत्श्रोताः पर्यागलत्श्रोताश्च शीताशीतोदाप्रवाहह्रदवत्, यतस्तत्र जलं निर्गच्छत्यागच्छति च १ । अपरस्तु परिगलत्श्रोताः नो पर्यागलत्श्रोताः पद्मह्रदवत्, पद्महदे तु जलं निर्गच्छति नत्वागच्छति २ तथा परो नो परिलगत्श्रोताः पर्यागलत्श्रोताश्च लवणोदधिवत्, लवणे आगच्छति जलं न तु निर्गच्छति ३ । अपरस्तु नो परिगलत्श्रोताः नो पर्यागलत्श्रोताश्च मनुष्यलोकाद्बहिः समुद्रवत्तत्र नागच्छति न च निर्गच्छति ४ । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः श्रुतस्य दानग्रहणसद्भावात् १, साम्परायिककर्म्मापेक्षया तु द्वितीयभङ्गपतितः कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणापत्तेश्च साम्परायिककर्म तु कषायकर्म्म २, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः आलोचनाया अप्रतिश्रावित्वात् ३. कुमार्गं प्रति चतुर्थभङ्गपतितः कुमार्गस्य हि प्रवेशनिर्गमाभावात् ४, यदि वा केवलश्रुतमाशिरत्य भङ्गा योज्यन्ते । तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः १, द्वितीयभङ्गपतितास्तु तीर्थकृतः २, तृतीयभङ्गस्था यथालन्दिकाः तेषां च क्वचिदर्थापरिसमाप्तावाचार्यादेर्निर्णयसद्भावात् ३. प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः ४, सम्यक् - सर्वथेत्यर्थः, 'समपासी चेव होइ कज्जेसु' त्ति समं - अविपरीतं पश्यतीत्येवंशीलः समदर्शी 'दृशो नियच्छपेच्छ' (८-४-१८१ ) इत्यादिना दृशः पासादेशः एवंविध एव यो भवति क्व कार्येषु आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः, स आचार्यः रक्षति-धत्ते कुमार्गे पतन्तमिति शेषः, कं गच्छं-गणं किम्भूतं सबालाश्च ते वृद्धाश्च सबालवृद्धाः तैराकुलः सङ्कीर्णस्तं सबालवृद्धाकुलं किमिव चक्षुरिव यथा चक्षुर्गर्त्तादौ पतन्तं जन्तुगणं धत्ते तथाऽयमपीत्यर्थः । गाथाच्छन्दः २२ ।। अथ गाथाद्वयेनाधमाचार्यस्वरूपमाह
सीयावेइ विहारं, सुहसीलगुणेहिं जो अबुद्धीओ । सो वरि लिंगधारी, संजमजोएण णिस्सारो ।। २३ ।।
६०