SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५९ गच्छाचारपइण्णयं बादरचिकित्साकरणं क्रोधमानपिण्डौ सम्बन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डाः प्रकाशकरणं द्विविधम् द्रव्यक्रीतमात्मभावक्रीतं लौकिकप्रामित्यपरावर्तिते निःप्रत्यपायपरग्रामाभ्याहृतं पिहितोद्भिन्नं कपाटोद्भिन्नमुत्कृष्टमालापहृतं सर्वमाच्छेद्यं सर्वमनिसृष्टं पुरःकर्म पश्चात्कर्म गर्हितम्रक्षितं संसक्तम्रक्षितं प्रत्येकाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतछर्दितानि प्रमाणोल्लङ्घनं सधूममकारणभोजनं चेति लघवश्चतुर्थादाचाम्लमिव । एतेभ्योऽप्यध्यवपूरकान्त्यभेदद्वयं कृतभेदचतुष्टयं भक्तपानपूतिकं मायापिण्डोऽनन्तकायव्यवहितनिक्षिप्तपिहितादीनि मिश्रानन्ताव्यवहितनिक्षिप्तादीनि चेति लघव आचाम्लादेकभक्तमिव । एतेभ्योऽप्यौघौद्देशिकमुद्दिष्टभेदचतुष्टयमुपकरणपूतिकं चिरस्थापितं प्रकटकरणं लोकोत्तरपरावर्तितमप्रामित्यं च परभावक्रीतं स्वग्रामाभ्याहृतं दर्दरोद्भिन्नं जघन्यमालापहृतं प्रथमाध्यवपूरकः सूक्ष्मचिकित्सा गुणसंस्तवकरणं मिश्रकर्दमेन लवणसेटिकादिना च मेक्षितं पिष्टादिम्रक्षितं किञ्चिद्दायकदुष्टं प्रत्येकपरम्परस्थापितादीनि मिश्रानन्तरस्थापितादीनि चेति लघव एकभक्तात्पुरिमार्द्धमिव । एतेभ्योऽपि चेत्वरस्थापितं सूक्ष्मप्राभृतिका सस्निग्धसरजस्कम्रक्षितं प्रत्येकमिश्रपरम्परस्थापितादीनि चेति लघवः पुरिमार्द्धान्निर्विकृतिकमिवेति । गाथाछन्दः ।।२१।। पुनरप्याचार्यगुणानाह अप्परिसावी सम्मं, समपासी चेव होइ कज्जेसु । सो रवखइ चपि व, सबालवुड्डाउलं गच्छं ।।२२।। अपरिश्रावी सम्यक, समदर्शी चैव भवति कार्येषु । स रक्षति चक्षुरिव, सबालवृद्धाकुलं गच्छम् ॥२२।। व्याख्या-न परिश्रवति परकथितात्मगुह्यजलमित्यवं शीलोऽपरिश्रावी आलोचनामाश्रित्य आचाराङ्गोक्ततृतीयभङ्गतुल्य इत्यर्थः । भङ्गाश्चैते
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy