SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ गच्छाचार व्याख्या-पिण्डश्चतुर्विधाहारलक्षणः, उपधिरौघिकौपग्रहिकलक्षणः, तत्रौधिकस्त्रिविधः-मुखवस्त्रिका १ पात्रकेसरिका २ गुच्छकः.३ पात्रस्थापनं ४ चेति चतुर्विधो जघन्यः १, पटलानि १ रजस्त्राणं २ पात्रबन्धः ३ चोलपट्टः ४ मात्रकं ५ रजोहरणं ६ चेति षडिवधो मध्यमः २, पतदग्रहः १ कल्पत्रयं ४ चेति चतुर्विध उत्कृष्टः ३ । औपग्रहिकोपधिरपि त्रिधातत्र पीठ १ पादप्रोञ्छन २ दण्डकप्रमार्जन ३ डगल ४ सूची ५ नखहरणी ६ कर्णशोधना ७ दिरूपो जघन्यः, संस्तारक १ उत्तरपट्ट २ दण्डक ३ उच्चार ४ प्रस्रवण ५ खेलमल्लक ६ योगपट्ट ७ सन्नाहपट्ट ८ चिलिमिल्या ९ दिरूपो मध्यमः, अक्ष १ पञ्चविधपुस्तकारदिरूप उत्कृष्टः । विशेषतस्तु औधिकोपग्रहिकौपधिस्वरूपं यतिजीतकल्पटिकादिभ्योऽवसेयम् । शय्यावसतिः एतत्रयमुद्गमोत्पादनैषणादोषशुद्धम्, तत्र गृहिप्रभवाः षोडशोद्गमदोषा गृहिणा प्रायेण तेषां क्रियमाणत्वात्, प्रायेणेत्युक्ते स्वद्रव्यक्रीतस्वभावक्रीतलोकोत्तरप्रामित्यलोकोत्तरपरिवर्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति, साधुसमुत्थाः षोडशोत्पादना दोषाः साधुनैव तेषां विधीयमानत्वात्, गृहिसाधुजन्यदशग्रहणैषणादोषाः शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वाच्छेषाणां च गृहिप्रभवत्वात्, तैः शुद्ध-रहितं चारित्ररक्षणार्थ-संयमपरिपालनार्थ शोधयन्उत्पादयन्नाचार्यो भवति सचारित्री सह चारित्रेण वर्त्तते यः स सचारित्री सर्वधनादीत्वादिन् समासान्तः चारित्रवानित्यर्थः । तत्रोद्गमादि दोषस्वरूपं किञ्चिद् यथा-'आहाकम्मुपद्देसिय २ पूईकम्मे अ ३ मीसजाए य ४ । ठवणा ५ पाहुडियाए ६, पाओयर ७ कीय ८ पामिच्चे ९ ।।१।। परियट्टिए १० अभिहडु ११-ब्भिन्ने १२ मालोहडे य १३ अच्छिज्जे १४ । अणिसिट्ठ १५ ज्झोयरए १६, सोलसपिंडुग्गमे दोसा ।।२।।' आधानमाधा प्रस्तावात्साधुप्रणिधानं अमुकस्मै साधवे देयमिति तया, आधाय वा साधून् कर्म षड्जीवनिकायविराधनादिना भक्तादिपाकक्रिया आधाकर्म तद्योगाद्
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy