________________
५५
गच्छाचारपइण्णयं २, कम्मविउस्सग्गे ३ ।' सं० नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः २, क० ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः ३, ‘से किं तं कसायविउस्सग्गे ? २ चउबिहे पं० तं० कोहकसायविउस्सग्गे १, माण० २, माया० ३, लोभ० विउस्सग्गे ४, से तं कसायविउस्सग्गे १ । से किं तं संसारविउस्सग्गे ? संसारविउस्सग्गे चउविहे पं० तं० नेरइयसंसारविउस्सग्गे १, तिरियसंसा० २, मणुयसंसा० ३, देवसंसा० ४, से तं० संसारविउस्सग्गे १ । से किं तं कम्मविउस्सग्गे ? २ अट्ठविहे पं० तं० णाणावरणिज्जकम्मविउसग्गे १, दरिसणावरणीय० २, वेयणीय० ३, मोहनीय० ४, आउय० ५, नाम० ६, गोय० ७, अंतरायकम्मविउस्सग्गे ८. से तं कम्मविउस्सग्गे । से तं भावविउस्सग्गे २ । इदं प्रायश्चित्तादि लौकिकैरनभिलषितत्वात् तन्त्रान्तरैश्च भावतोऽनासेव्यमानत्वात् मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरमिति । अथ वीर्याचारः-'अणिगृहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं, नायव्वो वीरियायारो ||१|| अनिगृहितबलवीर्यो-ऽनिद्भुतबाह्याभ्यन्तरसामर्थ्य सन् पराक्रमते-चेष्टते यो यथोक्तं षट्त्रिंशल्लक्षणं आचारमाश्रित्येति गम्यम् । षट्विंशद्विधत्वं च ज्ञानदर्शनचारित्राचाराणामष्टविधत्वात् तप आचारस्य च द्वादशविधत्वात्, उपयुक्तः-अनन्यचित्तः पराक्रमते ग्रहणकाले तत ऊर्ध्वं युनक्ति च-प्रवर्त्तयति च यथास्थाम-यथासामर्थ्य ज्ञातव्योऽसौ वीर्याचारः, आचाराचारवतोः कथञ्चिदभेदादिति । गाथाछन्दः ।।२०।। पूर्वमाव.रेषु चारित्राचारः प्रतिपादितः, स तु शुद्धपिण्डादिग्रहणे स्यादित्याहपिंडं उवहिं सिज्जं, उग्गमउप्पायणेसणासुद्धं । चारित्तरक्खणट्ठा, सोहिंतो होइ स चरित्ती ।।२१।। पिण्डमुपधि शय्यां, उद्गमोत्पादनैषणाशुद्धम् । चारित्ररक्षणार्थं, शोधयन् भवति सचारित्री ।।२१।।