SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४७ गच्छाचारपइण्णयं संलीणया य ६, बज्झो तवो होइ ।।५।।' अनशनं-आहारत्यागः, तद्विधाइत्वरं यावत्कथिकं च, तत्राद्यं चरमजिनतीर्थे चतुर्थादिषण्मासान्तं यावत्, उत्तराध्ययने तु 'इत्तरियमरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकंखा बितिज्जिया ||१||' इत्वरकं सावकाक्षं घटिकाद्वयाद्युत्तरकालं भोजनेच्छया वर्त्तते इति सावकाङ्क्षमित्यस्ति, यावत्कथिकं तु आजन्मभावि, तत्पुनश्चेष्टाभेदोपाधेर्विशेषतस्त्रिधा, पादपोपगमनं १, इङ्गितमरणं २, भक्तपरिज्ञा ३, तत्रानशनिनःत्यक्तचतुर्विधाहारस्याधिकृतचेष्टा व्यतिरेकेण चेष्टान्तरमधिकृत्य एकान्तनिःप्रतिकर्माङ्गस्य पादपस्येवोपगमन-सामीप्येन वर्त्तनं पादपोपगमनं, तच्च सव्याघातं निर्व्याघातं च, तत्र सव्याघातं व्याघ्रसिंहाद्युपद्रवे सति क्रियते, निर्व्याघातं तु यत्सूत्रार्थोभयनिष्टितो निष्पादितशिष्यः संलेखनापूर्वमेव विधत्ते, अन्यथा आर्तध्यानसम्भवः । तथा इङ्गिते प्रदेशे मरणं इङ्गितमरणं, इदं च संहननापेक्षं पूर्वोक्तं अशक्नुवतश्चतुर्धाहारनिवृत्तिरूपं स्वत एवोद्वर्त्तनादिक्रियायुक्तस्य ज्ञेयम् २, भक्तपरिज्ञा त्रिधाहारचतुर्धाहारनिवृत्तिरूपा, सा नियमात् सप्रतिकर्माङ्गस्य धृतिसंहननवतो यथा समाधिभावतोऽवगन्तव्या ३ ।।१।। यद्यनशनं कर्तुं न शक्नोति तदोनोदरतां कुर्यादित्यनश नानन्तरमूनोदरतामाह एवमग्रेऽपि ज्ञेयम्-'ऊणोयरिय' त्ति ऊनोदरता सा त्रिधा, यदुक्तं स्थानाङ्गे 'तिविहा ओमोयरिया पं० तं० उवगरणोमोयरिया १, भत्तपाणगोमोयरिया २, भावोमोयरिया ३' अस्य वृत्तिः-तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां शास्त्रीयोपध्यभावे हि समग्रसंयमाभावात्, अतिरिक्ताऽग्रहणतो वोनोदरतेति । अप्पाहारउवड्डा, दुभागपत्ता तहेव किंचूणा | अट्ठ दुवालस सोलस, चउवीस तहिक्कतीसा य ।।१।।' अल्पाहारोनोदरता नाम एककवलादारभ्य यावदष्टौ कवला, अत्रैककवलमाना जघन्या अष्टकवला तूत्कृष्टा शेषभेदा मध्यमा । एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदुपार्बोनोदरता, एवं त्रयोदशभ्य
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy