________________
गच्छाचारपइण्णयं
४६
1
दर्शनदर्शनिनोरभेदमाह १ निष्काङ्क्षितः देशसर्वकाङ्क्षारहितः, तत्राद्यः एकं दर्शनं काङ्क्षति, सर्वकाङ्क्षा तु बौद्धादीनि सर्वाणि २, निर्गता विचिकित्सा-फलं प्रति सन्देहो यस्मादसौ निर्विचिकित्सः साध्वेव जिनमतं, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति न भविष्यतीति क्रियाया इति सन्देहो विचिकित्सा जातनिश्चयो निर्विचिकित्स उच्यते, यद्वा विदोविज्ञास्ते च तत्त्वतः साधव एव तेषां जुगुप्सारहितो निर्व्विजुगुप्सः ३, बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा स्वरूपान्न चलिता दृष्टि:सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः ४ अयं चतुर्विधोऽप्यान्तर आचारो । बाह्यं त्वाह-उपवृंहा च समानधार्म्मिकाणां प्रशंसनं-तत्तद्गुणपरिवर्णनम् ५, स्थिरीकरणं च धर्माद्विषीदमानानां तत्रैव स्थापनं उपवृंहास्थिरीकरणे ६, वात्सल्यं च समानधार्मिकप्रीत्युपकारकरणं ७ प्रभावना च धर्मोक्त्यादिभिस्तीर्थख्यापनं वात्सल्यप्रभावने ८, इत्यष्टविधो दर्शनाचारः ।।२।। अथ चारित्राचारः - 'पणिहाणजोगजुत्ता, पंचहिं समिईहिं तिहिं हिं । स चरित्तायारो, अट्ठविहो होइ नायव्वो ।।३।।' प्रणिधानंचेतःस्वास्थ्यं तत्प्रधाना योगा- व्यापारास्तैर्युक्तः, अयं च ओघतोऽविरतसम्यग्दृष्टिरपि स्यादत आह- पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा पञ्चसु समितिषु तिसृषु गुप्तिसु अस्मिन् विषये एता आश्रित्य प्रणिधानयोगयुक्तो यः, एष चारित्राचारः । आचाराचारवतोः कथञ्चिदभेदात् अष्टविधः स्याद् ज्ञातव्यः ।।३।। अथ तपआचारः-बारसविहम्मि वि तवे, सब्मिंतरबाहिरे कुसलदिट्टे । अगिलाइ अणाजीवी, नायव्वो सो तवायारो ।।४।। द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलदृष्टे जिनोपलब्धेऽग्लान्या-न राजवेष्टिकल्पेन यथा शक्त्या वा अनाजीविको निःस्पृहः फलान्तरमाश्रित्य यः ज्ञातव्योऽसौ तपआचारः, आचारतद्वतोरभेदात् ।।४।। तत्र बाह्यं तप आह-'अणसण १ मूणोयरिया २, वित्तीसंखेवणं ३ रसच्चाओ ४ । कायकिलेसो ५
·