________________
४५
गच्छाचारपइण्णयं कृष्यादेरपि काल एव करणे फलं नान्यथा १, श्रुतादानं कुर्वता गुरोर्विनयः कार्यः-अभ्युत्थानाङ्घ्रिधावनादिः २ तथा श्रुतादाने गुरोर्बहुमान आन्तरो भावप्रतिबन्धः कार्यः, एवं सुखेनाधिकफलं श्रुतं स्यात्, विनयबहुमानाभ्यां चतुर्भङ्ग्यत्र ३, उपदधातीति उपधानं तपः तद्यत्र यत्र अध्ययने आगाढानागाढयोगलक्षणमुक्तं तत्तत्र तत्र कार्यं तत्पूर्वकस्यैव श्रुतग्रहणस्य सफलत्वात् ४, अनिन्हवः गृहीतश्रुतेनानिन्हवः कार्यः यद्यस्यान्तेऽधीतं तत्र स एव वाच्यः नान्यः चित्तकालुष्यापत्तेः ५, व्यञ्जनार्थतदुभयान्याश्रित्य भेदो न कार्य इति शेषः, एतदुक्तं भवति श्रुतप्रवृत्तेन तत्फलमीप्सिता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा-'धम्मो मंगलमुक्किट्टं' इति वक्तव्ये 'पुन्नं कल्लाणमुक्कोसं' इत्यादि ६, अर्थभेदस्तु यथा-'आवन्ती केयावंती लोगंसि विप्परामुसंती 'त्यत्राचारसूत्रे यावन्तः केचन लोके-ऽस्मिन् पाखण्डिलोके षड्जीवनिकायान् विपरामृशन्तिअनेकप्रकारं घातयन्त्येवंविधार्थोक्तौ । अवन्तिजनपदे केया-रज्जुर्वान्तापतिता लोकः परामृशति कूप इत्याह ७ उभयभेदस्तु द्वयोरपि याथात्म्योपमर्द्देन यथा ‘धर्म्मो मंगलमुत्कृष्टः अहिंसा पर्वतमस्तकः' दोषश्चात्र व्यञ्जनभेदेऽर्थभेदः, तद्भेदे क्रियाया भेदः क्रियाभेदे च मोक्षाभावः, तदभावे निरर्थका दीक्षा आचारः, इति सर्वत्र योजनीयम् ८, अष्टविधः कालादिभेदद्वारेण ज्ञानाचार इति 1191. अथ दर्शनाचार:- ' निस्संकिय १ निक्कंखिय २-निव्वितिगिच्छा ३ अमूढदिट्ठी अ ४ । उववूह ५ थिरीकरणे ६, वच्छल्ल ७ पभावणे अट्ठ ८ ।।२।। निःशङ्कितः- देशशङ्का समाने जीवत्वे कथमेको भव्योऽन्यस्त्वभव्य इति शकते, सर्वशङ्का तु सिद्धान्तस्य प्राकृतबन्धतया कल्पितत्वं मन्यते न तु - बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ।। १।। इत्यादिकारणानि, ततश्चनिःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षया दर्शनाचार उच्यते अनेन
-
"
,
"