SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं ४४ पुवनिबद्धे । लद्धटुं गहियटुं, तं आयरिअं पसंसंति ।।५।। आयरियसहस्साइं, लहइ अ जीवो भवेहि बहुएहिं । कम्मेसु य सिप्पेसु य, धम्मायरणेसु नो कहवि ।।६।। जे पुण जिणोवइट्टे, निग्गंथे पवयणंमि आयरिया । संसारमुक्खमग्गस्स, देसगा ते हु आयरिया ।।७।। देवा वि देवलोए, निग्गंथं पवयणं अणुसरंता । अच्छरगणमज्झगया, आयरिए वंदया इंति ||८|| जह दीवो दीवसयं, पइप्पए दिप्पई य सो दीवो । दीवसमा आयरिया, अप्पं च परं च दीवंति ।।९।। देवा वि देवलोए, निच्चं दिव्वोहिणा वियाणंता । आयरियमणुसरंता, आसणसयणाणि मुंचंति ।।१०।।' इत्यादि चन्द्रवेध्यकप्रकीर्णकोक्तं वाच्यमिति | गाथाछन्दः ||१९ ।। अथ द्वादशवृत्तैरुत्तमाऽधमाचार्ययोः स्वरूपमाह नाणम्मि दंसणम्मि य, चरणम्मि य तिसु वि समयसारेसु । चोएइ जो ठवेडं, गणमप्पाणं च सो अ गणी ।।२०।। ज्ञाने दर्शने च चरणे च त्रिष्वपि समयसारेषु । नोदयति यः स्थापयितुं, गणमात्मानं च स च गणी ॥२०॥ व्याख्या-ज्ञाने-ऽष्टविधे ज्ञानाचारे, दर्शने-ऽष्टविधे दर्शनाचारे, चकाराद् द्वादशविधे तपआचारे, चरणे-ऽष्टविधे चारित्राचारे, चकारात्, षट्त्रिंशल्लक्षणे वीर्याचारे, एषु त्रिष्वपि समयसारेषु-प्रवचनप्रधानेषु चकारद्वयसूचिततपोवीर्याचारयोश्च 'चोएइ' त्ति प्रेरयति यः किं कर्तुं स्थापयितुं कं गणं-यतिसमुदायरूपं, तथा आत्मानं चात् श्रोतृवर्गं च, 'सो अ' त्ति चकारस्यैवकारार्थत्वात् स एव गणी आचार्यः कथ्यते इति शेषः । अत्र ज्ञानाचारादिस्वरूपं कितिद् यथा 'काले १ विणए २ बहुमाणे ३, उवहाणे ४ तहा अनिन्हवणे ५ । वंजण ६ अत्थ ७ तदुभए ८, अट्ठविहो णाणमायारो ||१|| यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव काले स्वाध्यायो विधेयः नत्वकाले तथैव फलप्रदत्वात्,
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy