SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४३ गच्छाचारपइण्णयं तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अहे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्माओ भटुं समाणं भुज्जो केवलिपन्नत्ते धम्मे आघवइत्ता जाव ठावइत्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति ३ ।' तथा सर्वेष्वपि गुरुः सुदुष्करतरप्रतीकारः । यदुक्तं श्रीउमास्वातिवाचकपादैः प्रशमरतिग्रन्थे 'दुःप्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः ||१|| इति, अनुष्टुप्छन्दः ||१८ || अथ कथं कथञ्चित्प्रमादिनं गुरुं शिष्यो विबोधयतीत्याह तुम्हारिसा वि मुणिवर, पमायवसगा हवंति जइ पुरिसा । तेणन्नो को अहं, आलंबण हुज्ज संसारे ।।१९।। युष्मादृशा अपि मुनिवर ! प्रमादवशगा भवन्ति यदि पुरुषाः । तेनान्यः कोऽस्माकमालम्बनं भविष्यति संसारे ॥१९॥ व्याख्या-युष्मादृशा अपि हे मुनिवर !-श्रमणश्रेष्ठ ! प्रमादवशगा:प्रमादपरवशा भवन्ति यदि चेत् पुरुषा:-पुंमासः, तेन कारणेनान्योयुष्मद्व्यतिरिक्तः कोऽस्माकं मन्दभाग्यानां आलम्बनमत्र, विभक्तिलोपः प्राकृतत्वात्, सागरे नौरिव भविष्यति, संसारे-चतुर्गत्यात्मके पततामिति शेषः । अनेन विधिना शिष्यः प्रमादिनं गुरुं विबोधयतीत्यधिकाराल्लभ्यते । तथाऽत्र विबोधनविधये आचार्यगुणानपि शिष्य आचार्यस्य दर्शयति । यथा-पुढवीविव सव्वसहं, मेरुव्व अकंपिरं ठियं धम्मे । चंदुव्व सोमलेसं, तं आयरियं पसंसंति ।।१।। अप्परिसाविं आलो-यणारिहं हेउकारणविहिन्नु । गंभीरं दुद्धरिसं, तं आयरियं पसंसंति ||२|| कालन्नु देसन्नू, भावन्नु अतुरिअं असंभंतं । अणुवत्तयं अमायं, तं आयरियं पसंसति ।।३।। लोइयसामइएसुं, सत्थेसुं जस्स नत्थि वक्खेवो । ससमयपरसमयम्मि अ, तं आयरिअं पसंसंति ।।४।। बारसहि वि अंगेहिं, सामाइयमाइ
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy