________________
४०
गच्छाचारपइण्णयं द्रवकाले लिङ्गं वृषणौ वा कुम्भवद्भवतः स कुम्भी ४, स्त्रियमासेव्यमानामालोक्य यस्येाभिलाषो जायते स ईर्ष्यालुः ५, वेदोत्कटतया यो गृहचटक इवाभीक्ष्णं मैथुनासक्तः स शकुनिः ६, यो गलितशुक्रः श्वान इव स्वलिङ्गं लेढि स तत्कर्मसेवी ७, शुक्लपक्षे सवेदो न कृष्णपक्षे अथवा शुक्लपक्षे कृष्णपक्षे वा पक्षं यावदतीवोदयः स्यात् तावन्मात्रमेव च कालमल्पोदयः सपाक्षिकापाक्षिकः ८, यः सुभगं मन्वानः स्वलिङ्गं जिघ्रति स सौगन्धिकः ९, यो वीर्यपातेऽपि प्रियामालिङ्ग्य तिष्ठति स आसक्तः १० । एते दश नपुंसकाः साधूनां प्रव्राजितुमकल्पिताः-अयोग्याः कुत इत्याह-'संकिलिट्ठ' त्ति अविशेषतस्तावन्नगरदाहसमानकामाध्यवसायसम्पन्नत्वात्सर्वेऽप्यमी सङ्क्लिष्टाः-स्त्र्याद्यासेवामाश्रित्य अतीवाशुभाध्यवसायवन्त इति दीक्षानर्हा इत्यर्थः ।।४।।५।। ननु पुरुषमध्येऽपि नपुंसका ऊक्ता इहापि चेति तत्क एतेषां परस्परं प्रतिविशेषः ? सत्यं किन्तु तत्र पुरुषाकृतीनां ग्रहणमिह तु नपुंसकाकृतीनां एवं स्त्रीष्वपि वाच्यम् । शेषाः षट् नपुंसकाः प्रव्रज्यार्हाः । तद्यथा-'वद्धिए चिप्पिए चेव, मंतओसहिउवहए । इसिसत्ते देवसत्ते, पव्वावेज्ज नपुंसए ।।६।।' आयत्यां राजन्तःपुरमहल्लकपदप्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्वा वृषणौ गालितौ भवतः स वर्द्धितकः १, यस्य तु जातमात्रस्याङ्गुष्ठांगुलीभिर्मर्दयित्वा वृषणौ द्राव्येते स चिप्पितः २, एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते, कस्यलिनु गन्त्रणामादन्यस्य त्वौषधिप्रभावात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समुदेति ३-४, अपरस्य तु मदीयतपः प्रभावान्नपुंसको भव त्वमिति ऋषिशापात् ५, अन्यस्य तु देवशापात्तदुदयो जायते ६, इत्येतान् षट् नपुंसकान् निशीथोक्तविशेषलक्षणासम्भव सति प्रव्राजयेदिति ६ एतेषामष्टचत्वारिंशतः प्रव्रज्याऽनर्हाणामुत्सर्गापवादपदाभ्यां विशेषव्याख्यानं निशीथाद् ज्ञेयमिति । तथा सम्यग्मार्ग-मोक्षपथं न ग्राहयतिन दर्शयति न शिक्षयतीत्यर्थः स आचार्यो वैरीति जानीहि, हे गौतम !