________________
गच्छाचारपइण्णयं सह बालेन स्तन्यपायिना वत्सेन वर्त्तते इति सबालवत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा दीक्षानर्हाः ।।३।। नपुंसकाः पुनः षोडश भेदा भवन्ति, तत्र दश दीक्षानर्हाः । तद्यथा-'पंडए १ वाइए २ कीबे ३, कुंभी ४ ईसालुए त्ति य । सउणी ६ तक्कम्मसेवी य ७, पक्खियापक्खिए इ य ८ ।।४।। सोगंधिए अ ९ आसत्ते १०, दस एए नपुंसगा | संकिलिट्ठ त्ति साहूणं, पव्वावेउं अकप्पिया ।।५।। तत्र पण्डकस्वरूपं यथा-'महिलासहावो सरवन्नभेओ, मिढं महंतं मउया य वाणी | ससद्दयं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि ||१|| पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणम्, तथा हि-गतिस्तस्य मन्दा भवति, सशङ्कञ्च पृष्टतोऽवलोकमानो गच्छति, शरीरं च शीतलं मृदु च भवति, योषिदिवानवरतं हस्तोल्लकान् प्रयच्छन् ऊदरोपरि तिर्यग् व्यवस्थापितवामकरतलस्य वा उपरिष्टाद्दक्षिणकरकूर्परं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विक्षिपन् भाषते, अभीक्ष्णं च कटीहस्तकं ददाति, प्रावरणाभावे स्त्रीवबाहुभ्यां हृदयमाच्छादयति, भाषमाणश्च पुनः सविभ्रमं भ्रूयुग्ममुत्क्षिपति, केशबन्धनं प्रावरणादिकं च स्त्रीवत्करोति, योषिदाभरणादिपरिधानं च बहु मन्यते, स्नानादिकं प्रच्छन्ने समाचरति, पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति स्त्रीसमाजे तु निःशङ्कितः, प्रमदोचितं च रन्धनकण्डनपेषणादिकं कर्म प्रविदधाति, इत्यादि महिलास्वभावत्वं पण्डकलक्षणम् । अपरं च स्वरवर्णभेदः स्वरो वर्णश्च उपलक्षणत्वात् गन्धरसस्पर्शाश्च स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः । मेद्र-पुरुषचिन्हं महद्भवति, मूवी च वाणी ललनाया इव सञ्जायते, योषित इव सशब्दं मूत्रमभिजायते फेनरहितं च तद्भवति, एतानि षट्पण्डकलक्षणानि १ ।। वातिकः सनिमित्तमनिमित्तं वा लिङ्गे स्तब्धे सेवां विना यो वेदं न धारयति २, क्लीबश्चतुर्दा यो विवस्त्रां स्त्रियं वीक्ष्य क्षुभ्यति स दृष्टिक्लीबः १ शब्दं श्रुत्वा क्षुभ्यति स शब्दक्लीबः २, एवमाश्लिष्टः ३, निमन्त्रितः ४, ३ । यस्य मोहोत्कटतया