________________
४१
गच्छाचारपइणयं
त्वमिति विषमाक्षरेति गाथाऽनुष्टुप्छन्दसी १५ || १६ || अथ पूर्वोक्तार्थलेशं
विशेषयन्नाह -
जीहाए विलिहतो, न भद्दओ सारणा जहिं नत्थि । दंडे वि ताडतो, स भद्दओ सारणा जत्थ ।।१७।।
जिह्वया विलिहन् न भद्रकः सारणा यत्र नास्ति । दण्डेनापि ताडयन् स भद्रकः सारणा यत्र ॥१७॥
व्याख्या-जिह्वया विलिहन्- शिष्यं चुम्बन्नाचार्यो न भद्रको-न श्रेष्ठः, यत्राचार्ये सारणा-हिते प्रवर्त्तनलक्षणा, स्मारणा वा - कृत्यस्मारणलक्षणा, उपलक्षणत्वाद्वारणा अहितान्निवारणलक्षणा, नोदना-संयमयोगेषु स्खलितस्यायुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिनोदनातथैव पुनः पुनः प्रेरणा, नास्ति न विद्यते । तथा दण्डेनापि यष्ट्याऽपि किं पुनर्द्दवरकांदिना ताडयन् - शरीरे पीडां कुर्वन् स आचार्यो भद्रकःश्रेष्ठः, यत्र गणिनि सारणा उपलक्षणत्वाद्वारणादि वाऽस्तीति । गाथाछन्दः ।।१७।। अथ सूरिस्वरूपप्रकर्मेऽपि प्रसङ्गाद् यः शिष्योऽपि गुरोर्वैरी
तमाह
सीसो विवेरिओ सो उ, जो गुरुं न विबोहए । पमायमइराघत्थं, सामायारीविराहयं ||१८|
शिष्योऽपि वैरी स तु यो गुरुं न विबोधयति । प्रमादमदिराग्रस्तं, सामाचारीविराधकम् ॥१८॥
व्याख्या- शिष्योऽपि विनेयोऽपि स वैर्येव शत्रुरेव तुरेवकारार्थो भिन्नक्रमश्च स च योजित एव, यो गुरुं धर्म्मोपदेशकं न विबोधयतिहितोपदेशदानेन धर्मे न स्थापयति, किम्भूतं गुरुमित्याह प्रमादमदिराग्रस्तं प्रमादो-निद्राविकथादिरूपः स एव मदिरा - वारुणी प्रमादमदिरा तया