SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं ६ । समणट्ठा सावज्जा ७, महासावज्जाउ साहूणं ८ ।।५।। जा खलु जहुत्तदोसेहिं, वज्जिया कारिया सअट्ठाए । परिकम्मविप्पमुक्का, सा वसही अप्पकिरिय त्ति ९ ||६||' आसां च नवानां शय्यानां मध्ये प्रथममल्पक्रियाऽनुज्ञाता लेशतोऽपि सावद्यत्वाभावात्, तस्या अलाभे कालातिक्रान्ताऽनुज्ञाता, तस्या अप्यभावे उपस्थाना अनुज्ञाता, एवमग्रतोऽपि पूर्वस्याः पूर्वस्या अलाभे उत्तरोत्तराऽनुज्ञाता वेदितव्येति । तथा 'साहुवग्गं ति साधूनां वर्गो-वृन्दं साधुवर्गस्तं चशब्दात्साध्वीवर्गं च सगृह्णीत न तु हीनाचारिवर्गं । तथा 'सुत्तत्थं च निहालइत्ति सूत्रमाचाराङ्गादि अर्थो नियुक्ति-भाष्य-चूर्णी-सङ्ग्रहणी-वृत्ति-टिप्पनादिः सूत्रं चार्थश्चेति समाहारद्वन्द्वे सूत्रार्थं तत् निभालयति-चिन्तयतीत्यर्थः । चशब्दात्साधूनामपि सूत्रार्थं ददातीति । एवंविधो यः स सदाचार्यः स्यादिति शेषः । इत्यनुष्टुप छन्दः ।।१४।। अथ यः सूरिः शिष्यस्य वैरी स्यात् तं वृत्तद्वयेनाह संगहोवग्गहं विहिणा, न करेइ अ जो गणी । समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ।।१५।। संग्रहोपग्रहं विधिना, न करोति च यो गणी। श्रमणं श्रमणीं तु दीक्षित्वा, सामाचारी न ग्राहयेत् ॥१५॥ बालाणं जो उ सीसाणं, जीहाए उवलिंपए । न सम्ममग्गं गाहेइ सो सूरी जाण वेरिओ ।।१६।। बालानां यः पुनः शिष्याणां, जिह्वया उपलिम्पेत् । न सम्यग् मार्गं ग्राहयति, स सूरिर्जानीहि वैरी ॥१६॥ अनयोर्व्याख्या-'संगहोवग्गह' ति सङ्ग्रहश्च शिष्यादीनां सङ्ग्रहणम्, उपग्रहश्च तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं तत्तथा तन्न करोति, चान्न कारयति, विधिना-आगमोक्तप्रकारेण यो गणी-आचार्यः, तथा यः श्रमणं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy