SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं उल्लोइआ सेटिकादिभिः संमृष्टेत्युक्तं भवति १, 'धूविय' त्ति दुग्गंध त्ति काउं अगुरुमाईहिं सुगंधीकया २, 'वासिय'त्ति पटवासकुसुमादिभिरपनीतदुर्गन्धभावाः ३, उद्योतिता रत्नप्रदीपादिभिः प्रकाशिता ४, 'बलिकड' त्ति कृतकूरादिबलिविधाना ५, 'अवत्त त्ति छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला अव्यक्तस्थानयुक्ता वा निर्वाता वा ६, सिक्ता केवलोदकेनार्दीकृता ७, सन्मृष्टा प्रमार्जिता ८, साध्वर्थायेति सर्वत्र प्रक्रमः | विसो० अविशोधिकोटौ न भवतीत्युक्तं भवति । एतदनुसारतस्तु चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः । एवमन्यदपि कालातिक्रान्तादिवसतिनवकमाचाराङ्गद्युक्तमत्र ज्ञेयम् । यथा-'कालाइक्कंत १ उवट्ठाण २ अभिक्कंत ३ अणभिकंता ४ य । वज्जा ५ य महावज्जा, ६ सावज्ज ७ मह ८ प्पकिरिया ९ य ||१|| उडुवासा समईया, कालाइक्कंत सा भवे सिज्जा १ । सा चेव उवट्ठाणा, दुगुणादुगुणं अवज्जित्ता ।।२।। ऋतुबद्धकाले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धकाले मासे पूर्णे वर्षाकाले च चतुर्मासे पूर्णे यदि साधवस्तिष्ठन्ति तदा सा वसतिः कालातिक्रान्ता भवेत् १ । यस्यां वसतौ ऋतुबद्ध मासं वर्षाकाले चतुर्मासं च स्थिता यदि तस्यामृतुबद्धवर्षाकालसम्बन्धिकालमर्यादां द्विगुणां द्विगुणामवर्जयित्वा भूयः समागत्य तिष्ठन्ति तदा सैव वसतिरुपस्थाना | किमुक्तं भवति-ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहृत्य यदिपुनरागच्छन्ति तस्यां वसतौ ततः सा उपस्थाना भवति । अन्ये पुनरिदमाचक्षते यस्यां वसतौ वर्षारात्रं स्थितास्तस्यां द्वौ वर्षारात्रौ अन्यत्र कृत्वा यदि समागच्छन्ति, ततः सा उपस्थाना न भवति, अर्वाक् तिष्ठतां पुनरुपस्थाना २ । 'जावंतिआउ सिज्जा, अण्णेहिं सेविया अभिक्कंता ३ । अण्णेहिं अपरिभुत्ता, अणभिक्कंता उपविसंते ४ ।।३ ।। अत्तट्ठकडं दाउं, जईण अण्णं करेइ वज्जाओ । जम्हा तं पुवकयं, वज्जं ति अओ भवे वज्जा ५ ।।४।। पासंडिकारणा खलु, आरंभा अभिनवा महावज्जा
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy