SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णय संयमात्मविराधनासद्भावात्सुलक्षणं पात्रं समचतुरस्रं वृत्तं वा यद्भूमौ मुक्तं स्थिरं तिष्ठति तद् ग्राह्यम् । अत्र वस्त्रस्य पात्रस्य च गणनाप्रमाणं प्रमाणप्रमाणं च श्रीनिशीथसूत्रषोडशोद्देशकचूर्णितः श्रीबृहत्कल्पतृतीयोद्देशकवृत्तितश्च सविस्तरमवसेयम्, विस्तरभयान्नेह लिखितमिति । अथ वसतिसङ्ग्रहो यथा-यदा वसतिः सङ्कीर्णा मुनयस्तु प्रचुरास्तदा एकद्व्याद्यास्ताः प्रतिलेखनीयाः, चतुर्मासकेऽपि वसतित्रयं प्रतिलेखनीयम् । अथ प्रसङ्गतो वसतिस्वरूपं किञ्चिल्लिख्यते-'मूलुत्तरगुणसुद्धं, थीपसुपंडगविवज्जियं वसहिं । सेवेज्ज सव्वकालं, विवज्जए हुति दोसाओ ||१|| तत्र मूलगुणैरशुद्धा वसतिर्यथा-'पट्टीवंसो १ दो धारणीउ २, चत्तारि मूलबेलीओ | मूलगुणे हुववेया, एसा उ अहागडा वसही ।।२।। पृष्टिवंशो-मध्यवलको द्वे धारण्यौ-वे वृहबेल्यौ चतस्रो मूलबेल्यो याश्चतुर्यु गृहस्य पार्श्वेषु क्रियन्ते, एते सप्तापि मूलगुणास्तैश्च साधुमाधाय कृतैर्युक्ता मूलगुणैरुपपेता, एषा त्वियं पुनराधाकृता वसतिराधाकर्मिकीत्यर्थः । उत्तरगुणाश्च द्विविधा भवन्ति मूलोत्तरगुणा उत्तरोत्तरगुणाश्च ‘वंसग १ कडणु २ क्कंबण ३-छायण ४ लेवण ५ दुवार ६ भूमी य ७ । परिकम्मविप्पमुक्का, एसा मूलुत्तरगुणेसु ।।३।। अत्र वृद्धव्याख्या-'वंसग' त्ति दण्डकाः १, 'कडणं' ति कटकादिभिः कुड्यकरणं २, 'उक्कंबणं' ति दण्डकोपरि कंबीनां बन्धनं ३, 'छायणं' ति दर्भादिना आच्छादनं ४, 'लेवणं' ति चिक्खल्लेण कुड्डाण लिंपणं ५, 'दुवार 'त्ति गृहद्वारस्य बाहल्यकरणं अन्यस्य वा विधानं ६, 'भूमि' त्ति 'भूमिकम्मं विसमाए समीकरणं ति वुत्तं होइ, एसा सपरिकम्मा वसही मूलुत्तरगुणेसु ।' त्ति मूलभूतोत्तरगुणेष्वित्यर्थः । एते च पृष्टिवंशादयश्चतुर्दशापि अविशोधिकोटिः । इमे पुनरुत्तरोत्तरगुणा विशोधिकोटिस्थिता वसत्युपघातकास्तानाह'दूमियधूवियवासिय-उज्जोवियबलिकडा अवत्ता य । सित्ता सम्मट्ठावि य, विसोहिकोडीगया वसही ।।४।।' अत्रापि वृद्धव्याख्या-'दूमिय' त्ति
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy