________________
___ गच्छाचारपइण्णयं मुत्सर्गापवादाभ्यां कथयति । इत्यादि वस्त्रोत्पादनविधिः सविस्तर श्रीनिशीथपञ्चदशोद्देशकचूर्णितोऽवसेयः । तथा वर्षाकाले यत्र क्षेत्रे चातुर्मासकं स्थितास्तत्पूर्तावपि तत्राऽन्यत्रापि च संविग्नक्षेत्रे सक्रोशयोजनप्रमाणे कारणं विना मासद्वयं यावन्नोपकरणग्रहणं कुर्युः, पार्श्वस्थादिक्षेत्रे तु मासद्वयमध्येऽप्युपकरणग्रहणे न दोषः, ऋतुबद्धकाले च यत्र मासकल्पं स्थितास्तत्राप्युत्कर्षतः कारणं विना मासद्वयं परिहृत्योपकरणग्रहणं कुर्युः । एतदपि विस्तरतो निशीथदशमोद्देशक चूर्णितो निर्णेयम् । 'तथा जे भिक्खू वत्थस्स एगं पडिआणिअं देइ, देंतं वा साइज्जइ' यो वस्त्रस्य एकं थिग्गलं ददाति ददतं वा स्वादयति-अनुमोदयति तस्य दोषाः । द्वौ कल्पौ सौत्रिकौ एकः और्णिको ग्राह्यः । वर्षाकालं विना और्णिकः एकको न व्यापार्यः, मध्ये सौत्रिको बहिरौर्णिक इति विधिपरिभोगः । और्णिके शरीरे लग्ने षट्पदिकादिजन्तुसंसक्त्यादिदोषाः स्युः । जे भिक्खू वत्थस्स परं तिण्हं पडिआणिआणं देइ देंतं वा साइज्जइ ।' यः कारणे त्रयाणां थिग्गलानां परतश्चतुर्थं थिग्गलं ददाति तस्य प्रायश्रित्तं । 'जे भिक्खू अविहीए वत्थं सिव्वइ, सिव्वंतं वा साइज्जइ' अविधिसीवनं यथा गृहस्थानां पार्श्वद्वय मीलनेन सीवनं तथा न सीव्येत् । 'जे भिक्खू वत्थस्स एगं फालिअगंठिअं करेइ, करेंतं वा साइज्जइ' पाटितवस्त्रस्योभयोरञ्चलयोर्मीलनेन ग्रन्थिं ददाति अधिकं मा पाटयत्विति । 'जे भिक्खू वत्थस्स परं तिण्हं फालिअगंठियाणं करेइ, करेंतं वा साइज्जइ' वस्त्रे ग्रन्थिस्तावदुत्सर्गतो न कार्यः, यदि च वस्त्रस्यालाभे ग्रन्थिं करोति, तदा त्रयाणां ग्रन्थीनामधिकं ग्रन्थिं न कुर्यात् । 'जे भिक्खू वत्थं अविहीए गंठेइ, गंठेतं वा साइज्जइ' | सुगमम् । 'जे भिक्खू वत्थं अतज्जाएण गंठेइ ।' योऽतज्जातीयेन वस्त्रेण ग्रन्थिं कुर्यात्, श्वेतवस्त्रं रक्तादिना न सीव्यम्-न योज्यम्, यो योजयति अतज्जातीयेन सीव्यति च तस्य दोषाः । 'जे भिक्खू अइरेगं वत्थं गवेसइ, गवसंतं वा साइज्जइ । जे भिक्खू