SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं ३२ अइरेगगहिअं वत्थं परेण दिवड्डाओ मासाओ धरेइ, धरेंतं वा साइज्जइ।' योऽधिकं वस्त्रं गृहीत्वा सार्द्धमासात्परतो धारयेत्, तस्याज्ञादि दोषाः मासगुरुप्रायश्चित्तं च । इति निशीथसूत्रप्रथमोद्देशके । अथ पात्रम्, तत्र एकादित्रिपर्यन्तकार्षापणमूल्ये पात्रे गृह्यमाणे लघुमासः, चतुराद्यष्टादशपर्यन्तकार्षापणमूल्ये गुरुमासः, अग्रतो मूल्यवृद्धौ प्रायश्चित्तवृद्धिर्वस्त्रवत्पात्रेऽप्यवसेया । तथा-'तुंबयदारुअमट्टिअ-पायं उक्कोसमज्झिमजहन्नं। उप्परिवाडी गहणे, चाउम्मासा भवे लहुगा ।।१।।' पात्रं त्रिविधम्तुम्बकमयं दारुमयं मृत्तिकामयं । एकैकं त्रिविधम्-उत्कृष्टं मध्यमं जघन्यं, उत्कृष्टं पतद्ग्रहः, मध्यमं मात्रकं, जघन्यं टोप्परिकादि । एकैकं पुनस्त्रिधा यथाकृतमल्पपरिकर्म बहुपरिकर्म च । तत्र यथाकृतं यत्पूर्वमेव कृतमुखं कृतलेपं तादृशं कुत्रिकापणे लभ्यते, निन्हवो वा, प्रतिमाप्रतिनिवृत्तः श्रममोपासको वा तादृशं ददाति । अर्धाङ्गुलं यावद्यच्छेद्यं स्यात् तदल्पपरिकर्म । यद मुलात्परतः छेद्यं भवति तद्बहुपरिकर्म । एतेषां पात्राणामुत्परिपाट्या विपर्यासेन ग्रहणे चत्वारो मासाः लघुका भवन्ति, उपलक्षणत्वाल्लघुमासरात्रिंदिवसपञ्चकेऽपि । इदमुक्तं भवति-उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगं त्रिःपर्यटन रूपं अकृत्वाऽल्पपरिकर्म उत्कृष्टमेव गृह्णाति चतुर्लघु । बहुपरिकर्म वा प्रथमत एव गृह्णाति चतुर्लघु । यदा यथाकृतं योगे कृतेऽपि न लभ्यते, तदाऽल्परिकर्म गवेषणीयम्, तस्योत्पादनाय निर्गतः प्रथमत एव बहुपरिकर्म गृह्णाति चतुर्लघु । इति त्रीणि चतुर्लघुकानि । एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि । जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिंदिवपञ्चकानि । यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तं तथोत्कृष्टादीनामपि परस्परं विपर्यस्तग्रहणे प्रायश्चित्तम् । तद्यथा-उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं गृह्णाति मासिकं, जघन्यं टोप्परिकादि
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy