________________
3o
गच्छाचारपइण्णय तहा कयं तेणगेण दिट्ठा, रातिं आगंतुं तेणगेण भणिअं-जइ न देह वत्थं रायदिन्नं तो भे सिरच्छेअं करेमि, आयरिएहिं भणिअं-खंडिअं दंसेह, दंसिअं, रुट्ठो भणेति, सिव्विउं देह अन्नहा भे मारेमि, तं च सिव्विउं दिण्णं, एवमनेके दोषाः स्वयं ज्ञेयाः । इतिश्री सोमप्रभसूरिविरचितयतिजितकल्पनामक़प्रकरणश्रीसाधु-रत्नसूरिकृतवृत्तौ । अथ गच्छवासी साधुर्वस्त्रं कथं मार्गयति ? केन वा विधिना ? उच्यते यद्यस्य साधोः कल्पादिकं वस्त्रं नास्ति स तत्प्रवर्तिनः कथयति यथा ममामुकं वस्त्रं नास्ति, प्रवर्त्यपि आचार्यस्य कथयति अमुकस्य साधोरमुकं वस्त्रं नास्ति, गच्छे चाभिग्रहिका भवन्ति, अस्माभिर्वस्त्राणि पात्राणि वा आनेतव्यानि | अन्यदपि वा येन केनचित्साधुना प्रयोजनं तदा आचार्यस्तेषां निवेदयतियथा आर्या अमुकं वस्त्रं नास्ति । अथ न सन्त्याभिग्रहिकास्तदा स एव साधुर्मण्यते त्वमात्मना वस्त्रमुत्पादय । अथ स उत्पादयितुमशक्तः ततो योऽन्यः शक्तस्तमाचार्यो व्यापारयति यथा-अमुकं वस्त्रं मार्गयेति । य आभिग्रहिको यो वा व्यापारितस्तौ केन विधिनोत्पादयतः ? उच्यते सूत्रपौरुषीमर्थपौरुषी च कृत्वा भिक्षामेव हिण्डमानावुत्पादयतः, यदि भिक्षां हिण्डमानौ न लभेते तदाऽर्थपौरुष्यामपि मार्गयतः, तथाऽप्यलामे सूत्रपौरुष्यामपि सूत्रं वर्जयित्वा मार्गयतः, यद्येवमपि न लभ्यते तदैकैकं सङ्घाटकं आचार्यो व्यापारयति, आर्या ! यूयं भिक्षामेव हिण्डमाना वस्त्राणां योगं कुर्यास्तदा तेऽपि मार्गयन्ति, तथाऽप्यलभ्यमाने बहूनि वा वस्त्राणि उत्पादयितव्यानि, वृन्दसाध्यानि च कार्याणीति कृत्वा पिण्डकेन सर्वेऽप्युत्तिष्ठन्ति आचार्य मुक्त्वा, यद्याचार्यः स्वयं हिण्डते तदा चतुर्गुरुका अन्ये च बहवो दोषाः । ये चाचार्यव्यतिरिक्तास्ते पुनः सर्वे गीतार्थाः, अथवा अर्ध्या गीतार्या अर्द्धा अगीतार्थाः, अथवा एकोगीतार्थः शेषाः सर्वेऽगीतार्थाः, अथवा आचार्य मुक्त्वा शेषाः सर्वेऽप्यगीतार्थाः, तदा यस्तेषामगीतार्थानां मध्ये वाग्मी लब्धिसम्पन्नश्च तस्याचार्यो वस्त्रैषणा