SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णय देव मनुष्य असुर देव राक्षस मनुष्य । असुर । देव देव ग्राह्यम्, न पुनः कृत्स्नं वस्त्रं । तच्च चतुर्धा, द्रव्यकृत्स्नं क्षेत्रकृत्स्नं कालकृत्स्नं भावकृत्स्नं च । तत्र यत् सदृशं प्रमाणातिरिक्तं वा वस्त्रं तद्रव्यकृत्स्नं, यद्वस्त्रं यत्र क्षेत्रे दुर्लभं बहुमूल्यं वा तत्तत्र क्षेत्रकृत्स्नं, यद्वस्त्रं यस्मिन् कालेऽर्घितं दुर्लभं वा तत्तस्मिन् काले कालकृत्स्नं, यथा ग्रीष्मे काषायवस्त्रं, शिशिरे प्रावारादि, वर्षासु कुंकमादिखचितं, भावकृत्स्नं द्विधा, वर्णतो मूल्यतश्च, वर्णतः पञ्चविधं वर्णाढ्यं यथा-कृष्णं मयूरग्रीवासन्निभं, नीलं शुकपिच्छसन्निभं, रक्तं इन्द्रगोपकसन्निभं, पीतं सुवर्णच्छविसन्निभं, शुक्लं शवेन्दुसन्निभं, तदेवंविधं वर्णकृत्स्नं । द्रव्यादिकृत्स्ने वर्णकृत्स्ने चोत्कृष्टे चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकं | मूल्यकृत्स्नं पुनस्त्रिविधं जघन्यं मध्यममुत्कृष्टं च । तत्र यस्याष्टादशरूपका मूल्यं तज्जघन्यं, लक्षरूपकमूल्यमुत्कृष्टं, शेषं मध्यमं । रूपकप्रमाणं चेदम्-द्वीपसत्करूपकद्विकेनोत्तरापथरूपक एकः स्यात्, तद्द्वयेन चैकः पाटलिपुत्रीयो रूपकः, अथवा दक्षिणापथरूपकद्वयेन कांचिपुरीयरूपकः एकः स्यात्, तद्वयेन च पाटलिपुत्रीय एकः रूपकोऽत्रावगन्तव्यः । १८ रूपकमूल्ये वस्त्रे लघुमासः, २० रूपके चतुर्लघु, १०० रूपके चतुर्गुरू, २५० रूपके षड्लघु, ५०० रूपके षड्गुरुः, सहस्ररूपके छेदः, दशसहस्ररूपके मूलं, पञ्चाशत्सहस्ररूपकमूल्येऽनवस्थाप्यम्, लक्षरूपकमूल्ये पाराञ्चिकम् । कृत्स्नवस्त्रबहुमूल्यपात्रग्रहणे च चौराद्यनर्थः । इत्थ दिटुंतो-एगो राया आयरियाण उवसमइ, सो सव्वं गच्छं कंबलरयणेहिं पाडिलाभिउं उवट्ठिओ, आयरिएहिं निसिद्धो न वट्टइ त्ति, अतिनिबंधेणं एगं गहिअं, भण्णइ पाउएणं हट्टमग्गेणं गच्छह,
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy