________________
गच्छाचारपइण्णयं
२८ भवइ ६, आयरियउवज्झाए गणंसि पुव्वुप्पण्णाई उवगरणाइं सम्म सारक्खित्ता संगोवित्ता भवति ७ ।' अस्य किञ्चिद्व्याख्या यथा-सङ्ग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थानानि-हेतवः, आज्ञा-साधो ! भवतेदं विधेयमित्येवंरूपामादिष्टि, धारणां-न विधेयमिदमित्येवंरूपां सम्मं औचित्येन १, 'अहा'० यथाज्येष्ठं कृतिकर्म वैनयिकं च २, 'जे'त्ति यानि श्रुतपर्यवजातानि सूत्रार्थप्रकारान् 'ते'त्ति तानि 'काले काले' यथावसरं 'अणुप्पवाएत्ता' अनुप्रवाचयिता पाठयतीत्यर्थः ३, अभ्युत्थाता-अभ्युपगंता भवंति ४, आपृच्छ्य चरति क्षेत्रान्तरसङ्क्रमं करोति ५, 'अणुप्पन्नाइं' अनुत्पन्नान्यलब्धानि ६, 'सारक्खित्ता' संरक्षयितोपायेन चौरादिभ्यः 'संगोवित्ता' सङ्गोपयिताऽल्पसागारिककरणेन मलिनता रक्षणेन चेति ७ । वस्त्रस्वरूपं किञ्चिद् यथा-इह यद्वस्त्रं प्रथमं लभ्यमानं भवति, तस्य प्रथमतस्त्रयो भागाः कल्प्यन्ते, भूयोऽप्येकैको भागस्त्रिधा विभज्यते, एवं नवभागीकृते वस्त्रे ये चत्वारः कोणकास्ते देवसम्बन्धिनो भागाः, यौ द्वावञ्चलमध्यभागौ तौ मनुष्यसम्बन्धिनौ, यौ च द्वौ भागौ कर्णपट्टिकामध्यलक्षणौ तावसुरसम्बन्धिनौ, सर्वमध्यगतः पुनरेको भागो राक्षससक्तः | यदुक्तं-'चउरो दिव्विआ भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ||१।। एतेषु च नवसु भागेषु अञ्जनखञ्जनकर्दमैः खरण्टितेषु मूषककंसारिकादिभिर्भक्षितेषु अग्निना दग्धेषु तुन्नितेषु रजककुट्टनेन पतितच्छिद्रेषु जीर्णेषु कुत्सितवर्णान्तरसंयुक्तेषु वा फलमिदमवबोद्धव्यम्, 'दिव्वेसु उत्तमो लाभो, मणुस्सेसु अ मज्झिमो । असुरेसु अ गेलन्नं, मज्झे मरणमाइसे ।।१।।' ततो यौ द्वावसुरौ भागौ यश्चैको राक्षसो भागः एतेषु त्रिषु भागेषु यद्वस्त्रमञ्जनादिभिर्दूषितं भवति, तस्मिन् वस्त्रे गृह्यमाणे गुरुकाश्चत्वारो भवन्ति, आत्मविराधनासद्भावात्, आज्ञा च भगवतां विराधिता भवति, अतो यद्वस्त्रं निर्दोषं लक्षणोपेतं च स्यात् तत्साधुभिः संयमनिर्वाहनिमित्तं