SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २७ गच्छाचारपइण्णयं ____ व्याख्या-यथा सुष्टु कुशलोऽपि-भिषक्शास्त्रे निपुणोऽपि अपिशब्दाद्वयःप्राप्तोऽपि वैद्यः-चिकित्साकर्ता आत्मनः-स्वस्य व्याधि-रोगोत्पत्तिमन्यस्य वैद्यस्य कथयति-यथास्थितं निरूपयति वैद्योपदेशं-वैद्यनिरूपितं श्रुत्वाऽऽकर्ण्य पश्चात् स वैद्यस्त वैद्योक्तं कर्मप्रतीकाररूपमाचरति-करोतीत्यर्थः । एवमालोचकः सूरिरपि अन्यपार्श्वे पापं प्रकाशयति । तदर्पितं च तपो यथाविधि प्रतिपद्यते इति । गाथाछन्दः ।।१३।। पुनः सद्गुरूस्वरूपं दर्शयति देसं खित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई ।।१४।। देशं क्षेत्रं तु ज्ञात्वा वस्त्रं पात्रं उपाश्रयं । संगृह्णीत साधुवर्गं च, सूत्रार्थं च निभालयति ॥१४॥ __ व्याख्या-आचार्यों देशं मालवकादिकं, क्षेत्रं रूक्षारूक्षभाविताभावितादिरूपं, तु शब्दाद् ग्लानादियोग्यं द्रव्यं, दुर्भिक्षादिकालं, दातृपरिणामादिरूपं भावं च ज्ञात्वा वस्त्रं-चीवरं, पात्रं-पतद्ग्रहादि, उपाश्रयंमुनियोग्यालयं, सगृहीत, कोऽर्थ आचार्यः क्षेत्रादिकारणं ज्ञात्वा वस्त्रादिकं मेलयित्वा प्रायो गृहस्थानामदर्शयन् स्वपार्श्वे एव संरक्षेत्, न तु यथाकथञ्चिदित्यर्थः । यदुक्तं स्थानाङ्गसप्तमस्थाने 'आयरियउवज्झायाणं गणंसि सत्तसंगहठाणा पं० तं० आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति १, आयरियउवज्झाए गणंसि अहाराइणिआए कितिकम्मं वेणइअं सम्मं पउंजित्ता भवइ २, आयरियउवज्झाए गणंसि जे सुअपज्जवजाए धारेति ते काले काले सम्मं अणुप्पवाएत्ता भवइ ३, आयरियउवज्झाए गणंसि गिलाणसेहे वेआवच्चं अब्मुट्टित्ता भवति ४, आयरियउवज्झाए-गणंसि आपुच्छित्तचारी आविहवइ णो अणापुच्छित्तचारी ५, आयरियउवज्झाए गणंसि अणुप्पन्नाइं उवगरणाई सम्मं उप्पाएत्ता
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy