SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं २६ घटादीनामभिव्यञ्जकः प्रदीपः २७, उपनय-उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, क्वचित् कारणं-निमित्तं २८, नया नैगमादयस्तेषु निपुणः २९, स हि श्रोतारमपेक्ष्य तत् प्रतिपत्त्यनुरोधतः क्वचित् दृष्टान्तोपन्यासं २६, क्वचिद्धेतूपन्यासं विदधाति २७, क्वचित् अधिकृतमर्थमुपसंहरति २८, नयप्रस्तावे नयानवतारयति २९ ग्राहणाकुशलःप्रतिपादनशक्तियुक्तः ३०, स्वसमयं परसमयं च वेत्ति परेणाक्षिप्त उभयं निर्वाहयति ३१, गम्भीरो-ऽतुच्छस्वभावः ३२, दीप्तिमान् परवादिनामक्षोभ्यः ३३, शिवो-मारिरोगाद्युपद्रवविघातकृत् ३४, सौम्यः-शान्तदृष्टितया प्रीत्युत्पादकः ३५, गुणशतकलितः-औदार्यस्थैर्याद्यनेकगुणोपेतः ३६ तैः समन्वागतेन-संयुक्तेन तेनापि-सूरिणाऽपि अन्य आस्तामवश्यं-निश्चयेन कर्तव्या, अनुस्वारलोपः प्राकृतत्वात् परसाक्षिकीका विशेषेण शोधिर्विशोधिनिजपापप्रकटनमित्यर्थः । किं विशिष्टेन सूरिणा सुष्ट्वतिशयेन व्यवहरणं व्यवहारः पञ्चविधः, तत्र कुशलो-निपुणस्तेन । व्यवहारस्वरूपं यथा 'आगम १, सुय २, आणा ३, धारणा य ४, जीयं च होइ ववहारो | केवलिमणोहिचोद्दस-दसनवपुची अ पढमत्थो १ ।।१|| आयारपकप्पाई, सेसं सव्वं सुयं विणिद्दिष्टुं २ । देसंतरट्ठियाणं, गूढपयालोयणा आणा ३ ||२|| गीयत्थाओ पुस्विं, अवधारइ धारणा तहिं दिते ४ । पायच्छित्तं जीयं, जीयं वा जं जहिं गच्छे ५ ।।३।। अपिशब्दादनेकभव्यानां विधिना दत्ताऽऽलोचनेनापि इति गाथाच्छन्दः ।।१२।। केन दृष्टान्तेनाऽऽलोचनां गृण्हातीत्याह जह सुकुसलो वि विज्जो, अण्णस्स कहेइ अत्तणो वाहिं । विज्जुवएसं सुच्चा, पच्छा सो कम्ममायरइ ।।१३।। यथा सुकुशलोऽपि वैद्योऽन्यस्य कथयति आत्मनो व्याधिम् । वैद्योपदेशं श्रुत्वा, पश्चात् स कर्म आचरति ॥१३।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy