SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २५ गच्छाचारपइण्णयं षट्त्रिंशद्गुणसमन्वागतेन तेनापि अवश्यं कर्तव्या। परसाक्षिका विशोधिः सुष्ट्वपि व्यवहारकुशलेन ॥१२॥ व्याख्या-षट्त्रिंशत् ये गुणाः सूरिगुणा आर्यदेशोत्पन्नत्वादयः 'देस १, कुल २, जाति ३, रूवी ४, संघयणी ५, धिइजुओ ६, अणासंसी ७ । अविकत्थणो ८, अमाई ९, थिरपरिवाडी १० गहिअवक्को ११ ।।१।। जिअपरिसो १२ जिअनिद्दो १३, मज्झत्यो १४ देस १५ काल १६ भावन्नू १७ । आसन्नलद्धपइभो १८, नाणाविहदेसभासन्नू १९ ।।२।। पंचविहे आयारे २४ जुत्तो, सुत्तत्थतदुभयविहिन्नू । आहरण २६ हेउ २७ उवणय २८-नयनिउणो गाहणाकुसलो ३० ।।३।। ससमयपरसमयविऊ ३१, गंभीरो ३२ दित्तिमं ३३ सिवो ३४ सोमो ३५ । गुणसयकलिओ ३६ जुग्गो, पवयणसारं परिकहेउं ।।४।।' इति गाथा चतुष्टयोक्तस्तत्र आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् १, पैतृकं कुलं सुकुलोद्भवो यथोत्क्षिप्तभारोद्वहने न श्राम्यति २, मातृकी जातिस्तत्सम्पन्नो विनयान्वितः स्यात् ३, रूपवान् आदेयवाक्यः स्यादाकृतौ गुणा वसन्तीति ४, संहननयुक्तो व्याख्यानादिषु न श्राम्यति ५, धृतिः-चित्तावष्टम्भस्तद्युतो गहनेष्वर्थेषु न श्रमं याति ६, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकाङ्क्षति ७, अविकत्थनो न बहुभाषी स्यात् ८, अमायी-त्यक्तशाठ्यः ९, स्थिरपरिपाटिः तस्य हि सूत्रमर्थश्च न गलति १०, गृहीतवाक्यः सर्वत्रास्खलिताज्ञः स्यात् ११, जितपर्षत् राजादिसदसि न क्षोभमुपयाति १२, जितनिद्रोऽल्पनिद्रः १३, मध्यस्थः-सर्वशिष्येषु समचित्तो १४, देशकालभावज्ञः सुखेन विहरति १५, १६, १७, आसन्नलब्धप्रतिभः परतीर्थिकादीनामुत्तरदानसमर्थः १८, नानाविधदेशभाषाज्ञानादेशजविनेयान् सुखेन शास्त्राणि ग्राहयति १९, पञ्चविधाचारयुतः श्रद्धेयवचनः स्यात् २४, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपकः तस्या २५, आहरणं-दृष्टान्तः २६, हेतुर्द्विधाकारको ज्ञापकश्च, तत्र कारको यथा-घटस्य कर्त्ता कुम्भकारः, ज्ञापको यथा-तमसि
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy