________________
२८५
गच्छाचारपइण्णय व्याख्या - ‘दंसणि०' दर्शनातिचारं करोति चारित्रनाशं मिथ्यात्वं च जनयति द्वयोरपि वर्गयोः साधुसाध्वीरूपयोरार्या किं कुर्वाणा विहारआगमोक्तविधिना विचरणं तस्य भेदो-मर्यादोल्लङ्घनं तं कुर्वाणा । विहारस्वरूपं च किंचित् प्रथमाधिकारे २३ गाथावृत्तौ लिखितं, किञ्चिच्चात्रापि लिख्यते, 'नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ पंच महण्णवाओ महानदीओ उद्दिट्ठाओ गणिताओ वंजियाओ अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा संतरित्तए वा तं जहा गंगा जउणा सरऊ कोसिया मही', इति बृहत्कल्पचतुर्थोद्देशके अस्य वृत्तिः-'नो कल्पन्तेन युज्यन्ते सूत्रे एकवचननिर्देशः प्राकृतत्वात् निर्ग्रन्थीनां वा इमाः-प्रत्यासन्नाः पञ्च महार्णव कल्पा महासमुद्रगामिन्यो महानद्यो-गुरुनिम्नगा उद्दिट्ठा - सामान्येनाभिहिता यथा महानद्य इति गणिता यथा पञ्चेति व्यञ्जिताव्यक्तीकृता यथा गङ्गेत्यादि अन्तः-मध्ये मासस्य द्विकृत्वो वा उत्तरीतुंबाहुजङ्घादिना सन्तरीतुं-नावादिना तद्यथा-गंगा १ यमुना २ सरयू: ३ कोशिका ४ मही ५ एष सूत्रार्थः । अथ नियुक्तिविस्तर:-पंचण्हं गहणेणं, सेसाविय सूइया महासलिला । तत्थ पुरा विहरिसुं, न य ताउ कयाइ सुक्कंति ||१|| पंचानां गङ्गादीनां ग्रहणेन शेषा अपि या महासलिलाबहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः स्याद्बुद्धिः किमर्थं गङ्गादीनां ग्रहणमित्याह-'तत्थे त्थादि येषु गङ्गादयः पञ्च महानद्यो वहन्ति, तेषु पुरा साधवो विहृतवन्तो न च ताः कदाचिदपि शुष्यन्ति, अतस्तासां ग्रहण मित्यादि तथा 'अह पुण एवं जाणिज्जा एरवई कुणालाए जत्थ चक्किया एगं पादं जले किच्चा एगं पायं थले किच्चा एवण्हं कप्पइ अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा संतरित्तए वा, एवं नो चक्किया एवण्हं नो कप्पइ अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा' इति बृहत्कल्पचतुर्थोद्देशक एव, अस्य वृत्तिः-'अथ पुनरेवं जानीयात् ऐरावती नाम नदी कुणालाया नगर्याः समीपे जङ्घार्द्ध