________________
गच्छाचारपइण्णयं
- २८६ प्रमाणेनोत्सेधेन वहति, तस्यामन्यस्यां वा यत्रैवं 'चक्किया' शक्नुयात् उत्तरीतुमिति शेषः, कथमित्याह-एकं पादं जले कृत्वा एकं पादं स्थलेआकाशे कृत्वा एवण्हमिति वाक्यालंकारे यत्रोत्तरीतुं शक्नुयात् तत्र कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुं-लङ्घयितुं सन्तरीतुं-भूयः प्रत्यागन्तुं यत्र पुनरेवमुत्तरीतुं न शक्नुयात् तत्र नो कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुं वा सन्तरीतुं वा इति सूत्रार्थः । अथ भाष्यकृद्विषमपदानि व्याचष्टे-एरवइ जत्थ चक्किय, जलथलकरणे इमं तु णाणत्तं । एगो जलम्मि एगो, थलम्मि पायं थलागासं ।।१।। ऐरावती नाम नदी तस्यां जलस्थलयोः पादकरणेनोत्तरीतुं शक्यम्, इदमेव चात्र नानात्वं यत्पूर्वसूत्रोक्तासु महानदीषु मासान्तौ त्रीन् वा वारान् न कल्पते, यच्चाको जले एकश्च पादः स्थले इत्युक्तं तदिह स्थलमाकाशमुच्यते‘एरवइ कुणालाए, विच्छिन्ना अद्धजोयणं वहति । कप्पति तत्थ अपुण्णे, गंतुं जा वेरिसी अप्पण्णा ।।२।। ऐरावती नदी कुणाला नगर्या अदूरे अर्द्ध योजनं विस्तीर्णा वहति, सा चोत्सेधेन जङ्घार्धप्रमाणा, तत्र ऋतुबद्धे काले मासकल्पे अपूर्णे त्रिकृत्वो भिक्षाग्रहणलेपानयनादौ कार्ये यतनया गन्तुं कल्पते या वेदृशी अन्याऽपि नदी तस्यामपि त्रिकृत्वो गन्तुं कल्पते, तथा 'अन्तो मासस्स दुखुत्तो वा' इत्यादि सूत्रं व्याख्याति-एरवइ जत्थ चक्किय, तारिसाए नोवहम्मती खेत्तं । पडिसिद्धं उत्तरणं, पुण्णासति खेत्तणुण्णायं ।।१।। या ऐरावती नदी कुणालाजनपदे योजनार्द्धं विस्तीर्णा जङ्घार्धमानमुदकं वहति, तस्यां केचित्प्रदेशाः शुष्काः न तत्रोदकमस्ति, तामुत्तीर्य यदि भिक्षाचर्यां गम्यते, तदा ऋतुबद्ध त्रय उदकसङ्घट्टास्ते च गतागतेन षट् भवन्ति, वर्षासु सप्त दकसंघट्टास्ते च गतागतेन चतुर्दश भवन्ति, एवमीदृशे संघट्टप्रमाणे क्षेत्रं नोपहन्यते इत एकेनाप्यधिकेन सङ्घट्टेनोपहन्यते, अन्यत्रापि यत्राधिकतराः सङ्घट्टास्तत्रोत्तरणं प्रतिषिद्धं पूर्णे मासकल्पे वर्षावासे वा यद्यनुत्तीर्णानामपरं मासकल्पप्रायोग्यक्षेत्रमस्ति