________________
२८४
गच्छाचारपइण्णयं उत्पन्ने 'अज्जाउ'त्ति आर्याः-साध्यो गणिनीपृष्टिस्थिता मृदुकशब्देन भाषन्ते स गच्छ: स्यादिति शेषः । इति गाथाछन्दः ।।१३० ।।
माऊए दुहिआए, सुण्हाए अहव भइणिमाईणं । जत्थ न अज्जा अक्खइ, गुत्तिविभेयं तयं गच्छं ।।१३१।। मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनाम् । यत्र न आर्या आख्याति गुप्तिविभेदं सको गच्छः ॥१३१॥
व्याख्या - 'माऊए०' यत्र गच्छे आर्या मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनां सम्बन्धि 'गुत्तिविभेयं ति गुप्तेः-वचनगुप्तेविभेदोभङ्गो यस्मात्तद् गुप्तिविभेदं अर्थान्नात्रकोद्घाटकमित्यर्थः, वचनमिति शेषः नाख्याति इदमुक्तं भवति, हे मातः हे दुहितः हे स्नुषे हे भगिने इत्यादिनात्रकोद्घाटकवचनेन मात्रादीन् नालापयति, यदुक्तं श्रीदशवैकालिके-अज्जिए पज्जिए वा वि, अम्मो माउसिअ त्ति अपि । उस्सिए भायणिज्ज त्ति, धूए नत्तुणिइत्ति अ ||१||' तथा 'अज्जए पज्जए वा वि, बप्पो चुल्लपिउत्ति अ । माऊला भाउणिज्जत्ति, पुत्ता नत्तुणिइत्ति अ ।।२।।' अथवा ममेयं माता ममेयं दुहितेत्यादि अहमस्यास्या वा माता अहमस्यास्या वा दुहिता अहमस्य अस्या वा वधूटीत्यादि वा नात्रकोद्घाटकं वचनं कारणं विना न जल्पति अथवा मात्रादीनामपि 'गुत्तिविभेयं ति गोपनीयरूपमर्थं न कथयति स गच्छः स्यादिति | गाथाछन्दः ||१३१ ।। अथ गाथात्रयेण साध्वीस्वरूपवक्तव्यताशेषमाहदंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणज्जा, विहारभेयं करेमाणी ।।१३२ ।। दर्शनातिचारं करोति चारित्रनाशं जनयति मिथ्यात्वम् । द्वयोरपि वर्गयोः आर्याः विहारभेदं कुर्वाणाः ॥१३२॥