________________
२७४
गच्छाचारपइण्णयं .
गेहेसु गिहत्थाणं, गंतूण कहा कहेइ काहीआ । . तरुणाइअहिवडते, अणुजाणे साइ पडिणीआ ।।११५।। गृहेषु गृहस्थानां गत्वा कथा कथयति काथिका। तरुणादीन् अभिपततः अनुजानाति सा प्रत्यनीका ॥११५।।
अनयोर्व्याख्या-'गच्छइ० गेहे०' याऽऽर्या सविब्बोकं यथा स्यात् तथा सविलासा गतिर्यस्याः सा सविलासगतिर्गच्छति, तत्र विब्बोकविलासयोलक्षणमिदं-इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । स्त्रीणामनादर कृतो, विब्बोको नाम विज्ञेयः ।।१।। स्थानासनगमनानां, हस्तभ्रूनेत्रकर्मणां चैव, उत्पद्यते विशेषो यः, श्लिष्टः स तु विलासः स्यात् ।।२।। अन्ये त्वाहुः-विलासो नेत्रजो विकार इति, तथा शयनीयं-पल्यंकादिकं तूलिकाञ्चसंस्कृतरूतादिभृतामर्कतूलादिभृतां वा सेवते इति शेषः । तथा या शरीरमुद्वर्त्तयति-तैलादिना अभ्यङ्गयति, तथा या स्नानादीनि च करोति, अथवा सविलासगतिर्गच्छति तथा शयनीयं तूलिकाञ्च ‘सविब्बोअंति उच्छीर्षकसहितां सेवते, शेषं तथैव, तथा गृहस्थानां गृहेषु गत्वा उपलक्षणत्वादुपाश्रयेऽपि स्थिता संयमयोगान्मुक्त्वा या काथिकाकाथिकलक्षणोपेता आर्या कथा:-धर्मविषयाः संसारव्यापारविषया वा कथयति । काथिकलक्षणञ्चेदम्-सज्जायादिकरणिज्जे जोगे मोत्तुं जो देसकहाइ कहाओ कहेइ सो काहिओ - ‘आहारादीणट्ठा, जसहेउं अहव पूअणनिमित्तं । तक्कम्मो जो धम्मं, कहेइ सो काहिओ होइ ।।१।। धम्मकहंपि जो करेइ आहारादिनिमित्तं वत्थपायादिनिमित्तं जसत्थी वा वंदणादि पूआनिमित्तं वा सुत्तत्थपोरिसिमुक्कवावारो अहो अ राओ अ धम्मकहादिपढणकहणवग्गो, तदेवास्य केवलं कर्म तत्कर्मा, एवंविधो काहिओ भवति, चोअगआह-'नणु सज्झाओ पंचविहो वायणादिगो, तस्स पंचमो भेदो धम्मकहा, तेण भव्वसत्ता पडिबुज्झति, तित्थे अ अवुच्छित्ती