SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं _____- २० वाहयति मासादिकमुत्कर्षतः षण्मासपर्यवसानम | अथ स नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्ततया दत्तं, ततस्तं तत्रैव तपो बाहयतीति । पार्श्वस्थादीनामप्यभावे यत्र कोरण्टकादौ गुणशिलादौ वा भगवान् मुनिसुव्रतस्वाम्यादिः श्रीवर्द्धमानस्वाम्यादिर्वा समवसृतस्तत्र तीर्थकरैर्गणधरैश्च बहूनां बहूनि प्रायश्चित्तानि दत्तानि तानि च दीयमानानि तत्रस्थया देवतया दृष्टानि ततस्तत्र गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यगाकम्पिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति, सा च प्रयच्छति यथार्ह प्रायश्चित्तम् । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दृष्टस्तीर्थकरस्ततः साष्टमेनाकम्पिता ब्रूते-महाविदेहे तीर्थकरमापृच्छ्य समागच्छामि, ततः सा तेनानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति, पृष्ट्वा च समागत्य साध्वादिभ्यः प्रायश्चित्तं कथयति । तासामपि देवतानामभावे अर्हत्प्रतिमानां पुरतः स्वयं प्रायश्चित्तदानपरिज्ञानकुशल आलोचयति, ततश्च स्वयमेव प्रतिपद्यते प्रायश्चित्तम् । तासामप्यभावे प्राचीनादिदिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधिविद्वानालोचयति, आलोच्य च स्वयमेव प्रायश्चित्तं प्रतिपद्यते । स च तथा प्रतिपद्यमानः शुद्ध एव सूत्रोक्त विधिना प्रवृत्तेरिति श्राद्धजीतकल्पे । तथाऽयमर्थः सविस्तरः श्रीव्यवहार प्रथमोदेशकप्रान्तसूत्रवृत्तावप्यस्ति । तथा नित्यं-सदा कथा चतुर्दा शुभा, तद्विरुद्धा विकथा सप्तधा, तस्यां परायणस्तत्परस्तं, कथाविकथास्वरूपं स्थानाङ्गाद्युक्तं यथा-'चउव्विहा कहा, पं० तं० अक्खेवणी १ विक्खेवणी २ संवेयणी ३ निव्वेयणी ४ ।' व्याख्या आक्षिप्यते मोहात्तत्त्वं प्रत्याकृष्यते श्रोता ययेत्याक्षेपणी २, विक्षिप्यते कुमार्गविमुखो विधीयते श्रोता यया सा विक्षेपणी २, संवेद्यते-मोक्षसुखाभिलाषी विधीयते यया सा संवेदनी ३, निर्वेद्यते-संसारनिर्विन्नो विधीयते श्रोता यया सा निर्वेदनी ४ । अथैतासां भेदा यथा-'आयारे १ ववहारे २, पन्नत्ती चेव ३
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy