________________
गच्छाचारपइण्णयं आलोचनाऽऽदेया, इयमत्र भावना-प्रायश्चित्तस्थानमापन्नेन साधुना श्राद्धेन वा नियमतः प्रथमं स्वकीयानामाचार्याणां समीपे आलोचयितव्यम्, तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनः, तस्याप्यभावे स्थविरस्य, तस्याप्यभावे गणावच्छेदिनो वा समीपे आलोचनाऽऽदेया । अथ स्वगच्छे पञ्चानामप्यभावस्तर्हि किं कार्यमित्याह-"संभोइय' त्ति स्वगच्छे आचार्यादीनामभावेऽन्यस्मिन् साम्भोगिके एकसामाचार्यादिवति गन्तव्यम्, तत्राप्याचार्यादिक्रमेणालोचयितव्यम् । साम्भोगिकगच्छेऽपि पञ्चानामाचार्यादीनामभावे 'इयर'त्ति इतरोऽसाम्भोगिकः संविग्न इति तस्मिन् गन्तव्यम्, तत्राप्याचार्यादिक्रमेणैवालोचयितव्यम् । संविग्नान्यसाम्भोगिकानां चाभावे 'गीय त्ति पदैकदेशे पदसमुदायोपचाराद् गीतार्थः, एतच्च विशेषणं पार्श्वस्थसारूपिकपश्चात्कृतरूपाणां त्रयाणामपि योज्यम्, ततश्चायमर्थःपार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् । तस्मिन्नपि गीतार्थे पार्श्वस्थेऽसति गीतार्थस्य सारूपिकस्य पार्श्वे संयतवेषस्य गृहस्थस्य लिङ्गमात्रधारिण इत्यर्थः । तस्मिन्नपि गीतार्थसारूपिकेऽसति पश्चात्कृतस्य गीतार्थस्य पार्श्वे आलोचयितव्यम्, पश्चात्कृतचरणस्य-परित्यक्तचारित्रवेषस्य गृहस्थस्य पार्श्वे इति यावत् । पार्श्वस्थादीनां च मध्ये यस्य पुरत आलोचना दातुमिष्यते तमभ्युत्थाप्य तस्य पुरत आलोचयितव्यम्, अभ्युत्थापनं नाम वन्दनकप्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा अभ्युत्थिते वन्दनाप्रतीच्छनादिकं प्रतिकृताभ्युपगमे प्रतिक्रान्तो भवेत् नान्यथा, विनयमूलत्वाद्धर्मस्य । यदुक्तं-'विणओ सासणे मूलं' इत्यादि । अथ ते पार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युत्तिष्ठन्ति तदा पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम् । पश्चात्कृतस्य पुनरित्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । यदि पार्श्वस्थादिकोऽभ्युत्तिष्ठति तदा तेनान्यत्र गन्तव्यम्, येन प्रवचनलाघवं न भवति । तत्र च गत्वा तमापन्नप्रायश्चित्तं शुद्धतपो