________________
गच्छाचारपइण्णयं
||१०८ ।। अथैकाकिश्रमण्यधिकारादेवेदमाह
जत्थ य एगा समणी, एगो समणो य जंपए सोम ! निबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं ।। १०९ ।।
1
यत्र च एकाकिनी श्रमणी एकाकी साधुश्च जल्पते सौम्य ! | निजबन्धुनापि सार्धं, तं गच्छं गच्छ्गुणहीनम् ॥१०९॥
२५६
व्याख्या 'जत्थ य०' यत्र च एकाकिनी श्रमणी एकाकिना निजबन्धुनाऽपि सार्द्धं जल्पति, अथवा एकाकी साधुरेकाकिन्या निजभगिन्यापि सार्द्धं जल्पति, हे सौम्य ! - हे गौतम ! तं गच्छं गच्छगुणहीनं जानीहीति शेषः । यत एकाकिन्या श्रमण्याः निजबन्धुनापि सार्द्धं, एकाकिनः साधोर्वा निजभगिन्याऽपि सार्द्धं संदर्शनसंभाषणादिना बहु दोषोत्पत्तिर्भवति, कामवृत्तेर्मलिनत्वात् । तथा चोक्तं- 'संदंसणेण १ पीई २ पीईउ रई ३ रईओ वीसंभो ४ । वीसंभाओ पणओ ५ पंचविहं वड्ढए पिम्मं ||9||' जह जह करेसि नेहं तह तह नेहो मि वड्ढइ तुमंमि । तेण नडिओ मि बलियं, जं पुच्छसि दुब्बलतरोसि ।।२।। मित्ति मम । इय संदंसणसंभासणेण संदीविओ मयणवण्ही । बंभाई गुणरयणे, डहइ अणिच्छ वि पमायाओ || ३ || अनिच्छतोऽपि दहति । तथा 'मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ।।४।। इति गाथाछन्दः । । १०९ ।। अथार्याया गृहिसमक्षं दुष्टभाषणे 11 दोषमाह
,
जत्थ जयारमयारं, समणी जंपइ गिहत्थ पच्चक्खं । पच्चक्खं संसारे, अज्जा पक्खिवइ अप्पाणं ।। ११० ।। यत्र जकारमकारं, श्रमणी जल्पति गृहस्थप्रत्यक्षम् । प्रत्यक्षं संसारे, आर्या प्रक्षिपति आत्मानम् ॥ ११०॥