________________
२५७
गच्छाचारपइण्णयं व्याख्या - ‘जत्थ०' यत्र गच्छे 'जयारमयारमिति' अवाच्यदुष्टगालिरूपं जकारमकारसहितं वचनं या श्रमणी गृहस्थ-प्रत्यक्षं-गृहिसमक्षं जल्पति, हे गौतम ! तत्र गच्छे सा आर्या आत्मानं संसारे प्रत्यक्षं साक्षात् प्रक्षिपतीति। गाथाछन्दः ||११० ।। अथार्याया गृहस्थभाषाभाषणे दोषमाह
जत्थ य गिहत्थभासाहिं, भासए अज्जिआ सुरुठ्ठावि । तं गच्छं गुणसायर ! समणगुणविवज्जिअं जाण ।।१११।। यत्र च गृहस्थभाषाभिः भाषते आर्या सुरुष्टाऽपि । तं गच्छं गुणसागर ! श्रमणगुणविवर्जितं जानीहि ॥१११॥
व्याख्या - यत्र च, सुरुष्टाऽपि-कथमपि कारणवशेन भृशं रोषंगताऽपि, किं पुनररुष्टा आर्या गृहस्थभाषाभिः-तव गृहं ज्वलतु, तव शबं कर्षयामि, तवाऽक्षिणी स्फुटिते ? तव पादौ कृत्तौ स्तः ? इत्यादि कठोरसावद्यरूपाभिर्भाषते, हे गुणसागर ! तं गच्छं श्रमणगुणविवर्जितं जानीहीति । गाथाछन्दः ।।१११।। अथार्याया विचित्रवस्त्रपरिधाने दोषमाह
गणिगोअम ! जा उचिअं, सेअवत्थं विवज्जिउं । सेवए चित्तरुवाणि, न सा अज्जा विआहिया ।।११२ ।। गणिन् गौतम ! या उचितं श्वेतवस्त्रं विवर्ण्य । सेवते चित्ररूपाणि, न सा आर्या व्याहृता ॥११२।।
व्याख्या - 'गणिगो०' - हे गणिन् ! गौतम ! आर्या उचितं श्वेतवस्त्रं विवर्ण्य, चित्ररूपाणि-विविध वर्णानि विविधचित्राणि वा वस्त्राणि सेवते, उपलक्षणत्वात् पात्रदण्डाद्यपि चित्ररूपं सेवते, सा आर्या न व्याहृता-न कथितेति विषमाक्षरेति । गाथाछन्दः ||११२ ।। अथार्याया गृहस्थादीनां सीवनादिकरणे दोषमाह