________________
२५४
गच्छाचारपइण्णयं दोसा । तरुणो वि एगागी कयाइ मोहोदएण हत्थकम्मं करिज्जा, अंगादाणं वा किड्डाए वालिज्जा, इत्थी वा काइ तरुणं दह्नण आगच्छिज्जा, स चऊत्थं भंजिज्जा ऊड्डाहं वा करिज्जा, मोहोदएण गच्छं मुत्तूण गच्छिज्ज वा, एवमाइ बहू एगागितरुणे दोसा' विशेषतो निशीथचूादिभ्यो ज्ञेया इति । एतावता च प्रायो गच्छस्वरूपनिरूपणद्वारेण यतिस्वरूपमेव निरूपितम् । इतश्च प्राय आग्रन्थपरिसमाप्तेर्गच्छस्वरूपनिरूपणद्वारैव यतिनीस्वरूपं निरूपयिष्यते, ननु गच्छस्वरूपे वक्तुं प्रक्रान्ते कथं यतियतिनीस्वरूपमुच्यते ? ऊच्यते, तदात्मकत्वाद् गच्छस्य, तत्स्वरूपे निरूपिते गच्छस्वरूपस्यापि निरूपणादिति विषमाक्षरेति ।। गाथाछन्दः ||१०६ ।।
इति श्रीमत्तपागच्छनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्चञ्चरीकायमाणपंडितश्री विजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायां साधुस्वरूपनिरूपणाधिकारो द्वितीयः ।।
वर्णितं व्रतिस्वरूपम् । अथ क्रमप्रापं व्रतिनीस्वरूपं वर्ण्यते, तत्रापि प्रथमं एकाकिन्या क्षुल्लिकादिकया वतिन्योपाश्रयरक्षणे दोषमेव दर्शयति
जत्थ य एगा खुड्डी, एगा तरुणीउ रक्खए वसहिं । गोयम ! तत्थ विहारे, का सुद्धी बंभचेरस्स ।।१०७ ।। यत्र चैकाकिनी क्षुल्लिका एकाकिनी तरुणी तु रक्षति वसति । गौतम ! तत्र विहारे, का शुद्धिः ब्रह्मचर्यस्स ? ॥१०७।।
व्याख्या - 'जत्थ य एगा०' यत्र च साध्वी विहारे एकाकिनी क्षुल्लिका, एकाकिनी तरुणी वा, तुशब्दात् नवदीक्षिता चैकाकिन्युपाश्रयं रक्षति, हे गौतम ! तत्र साध्वी विहारे ब्रह्मचर्यस्य का शुद्धिः ? न काऽपीत्यर्थः । इत्थवि दोसा-कयाई वसहीए एगा खुड्डी किड्डिज्जा,