________________
२५३
गच्छाचारपइण्णयं तस्मात्सम्यग् निभाल्य, गच्छं सन्मार्गप्रस्थितम् । वसेत पक्षं मासं वा, यावज्जीवं तु गौतम ! ॥१०५।।
व्याख्या-'तम्हा०' यस्मात् सद्गच्छः संसारोच्छेदकारी, असद्गच्छश्च संसारवर्द्धकः, तस्मात् सम्यग्निभाल्य-सम्यग् विलोक्य, गच्छं-गणं सन्मार्गप्रस्थितं, तत्र पक्षं वा मासं वा ऊपलक्षणत्वात् मासद्वयादिकं वा यावज्जीवं वा, तुरपि विकल्पार्थ एव, वसेन्मुनिः । हे गौतम ! इति । अनुष्टुप् छन्दः ||१०५।। अथैकाकिना क्षुल्लादिनोपाश्रयरक्षणमाश्रित्य साधुस्वरूपाधिकाराऽवशेष दर्शयति
खुडो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो ।।१०६।। क्षुल्लो वाथवा शैक्षो यत्र रक्षेत् उपाश्रयम् । तरुणो वा यत्र एकाकी का मर्यादा तत्र भाषामहे ? ॥१०६॥
व्याख्या - 'खुड्डो' इत्यादि, यत्र गणे क्षुल्लो वा-बालयतिरथवा शैक्षो-नवदीक्षित एकाकी उपाश्रयं रक्षेत्, तरुणो वा एकाकी साधुर्यत्रोपाश्रयं रक्षेत्, अत्रानुक्तास्यापि गौतमामन्त्रणस्य गम्यमानत्वात् हे गौतम ! तत्र गच्छे का मेरा ? - का मर्यादा ? न काचिदपीत्यर्थः । इति वयं भाषामहे । एकाकिक्षुल्लादेः वसतिरक्षणे बहुदोषोत्पत्तेः, तथाहि - ‘एगो खुड्डो रमइ, रममाणस्स अण्णे धुत्ताइया उवहिं हरंति, बालं वा भोलविऊण अण्णत्थ गच्छन्ति । वसहीए वा कयाइ बलमाणाए खुड्डो वत्थाइ गहणत्थं पविसति, सप्पो वा डसइ, नट्टाइपेच्छणत्थं वा गच्छिज्जा, एवमाइ बहु एगागिणि बाले दोसा | सेहोवि एगागी कयाइ सघरं गच्छेज्जा, अन्नत्थ वा गच्छेज्जा, अम्मापियरो अण्णो वा सयाणो कयाइ मिलिज्जा, सिणेहेणं रोएज्जा, भासासमिई भंजिज्जा, ऊड्डाहं वा करिज्जा, एवमाई बहू सेहे