________________
गच्छाचारपइण्णयं
२५२
सम्यग्वृत्तान्तं ज्ञात्वा स देशान्निष्काशितः, चन्द्रवदनां लात्वा स गतो विदेशं, मदनो वैद्यैः सज्जः कृतः, राजाऽन्यपुत्राय राज्यं दत्वा प्रव्रज्य मोक्षं गतः, मदनोऽपि तथाविधं स्त्रीचरितं दृष्ट्वा संविग्नः प्रव्रज्य वैमानिको देवो जातः, चन्द्रवदनामहेन्द्रौ भ्रमन्तौ चौरैर्निगृहीतौ, बब्बरकुले विक्रीतौ, तत्र रुधिराकणमवेदनां सहेते, भवमनन्त भ्रान्तौ । इति स्पर्शनेन्द्रियविषयविपाके महेन्द्रकथा |५|
'
तथा विषयविवशत्वेन विनश्यतां पशवोऽपि निदर्शनीभवन्तो दृश्यन्ते । यदुक्तं श्री 'प्रशमरतौ' कलरिभितमधुरगांधर्वतूर्ययोषिद्विभूषणरवाद्यैः । श्रोत्रावबद्धहृदयो, हरिण इव नाशमुपयाति ||१|| गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः ।।२।। स्नानांङ्गरागवार्त्तिक-वर्णकधूपाधिवासपटवासैः । गन्धभ्रमितमनस्को, मधुकर इव नाशमुपयाति ।। ३ ।। मृष्टान्नपानमांसौ-दनादिमधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ||४|| शयनासनसम्बाधन-सुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमति-गजेन्द्र इव बध्यते मूढः ||५|| एवमनेके दोषाः प्रनष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणाम् भवन्ति बाधाकरा बहुशः || ६ || एकैकविषयसङ्गाद्रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा, जीवः पञ्चेन्द्रियवशात्तः ।।७।। तथा विषयैस्तरवोऽपि विगोपिताः । यतः पठयते-' पादाहतः प्रमदया विकसत्यशोकः, शोकंजहाति बकुलो मुखसीधुसिक्तः । आलिङ्ग्ङ्गतः कुरबकः कुरुते विकाश-मालोकितः सतिलकस्तिलको विभाति ।।८।। इति गाथाछन्दः || १०४ ।। एवं शुभाशुभगच्छस्वरूपेऽवगते सति मुनिः किं कुर्यात् ? इत्याह
,
तम्हा सम्मं निहालेउं, गच्छं सम्मग्गपट्ठियं ।
वसिज्ज पक्खमासं वा, जावज्जीवं तु गोयमा । । १०५ ।।