________________
२४९
गच्छाचारपइण्णयं
आरम्भेषु प्रसक्ताः सिद्धान्तपराङ्मुखा विषयगृद्धाः । मुक्त्वा मुनीन् गौतम ! वसेत् मध्ये सुविहितानाम् ॥१०४॥
व्याख्या - 'आरंभे०' आरम्भेषु पृथिव्याद्युपमर्दनेषु प्रसक्ताः- तत्पराः, सिद्धान्तपराङ्मुखाः- आगमोक्तानुष्टानशून्याः, विषयेषु- शब्दरूपरसगन्धस्पर्शेषु गृद्धा- लम्पटाः, हे गौतम ! ये एवंविधास्तान् मुनीन् मुक्त्वा परित्यज्य, सुविहितानां-सदनुष्ठानोद्यतानां मध्ये वसेन्मुनिरिति । अत्र शब्दादिविषयलम्पटत्वे क्रमेण राम १ चपलाक्ष २ गन्धप्रियकुमार ३ मधुप्रियकुमार ४ महेन्द्रदष्टान्ताः ५ लिख्यते । तत्र रामकथा यथा- ब्रह्मस्थलपुरे भुवनचन्द्रो राजा, रामः सुतः ७२ कलाकुशलः, अन्यदा राज्ञा मन्त्री पृष्टः, रामाय यौवराज्यपदं ददामीति, मंत्र्याह - नायं योग्यः, को दोष ? इति राज्ञोक्ते मन्त्र्याह-देव ! अयमवशश्रोत्रेन्द्रियः प्रत्यहं गीतप्रियः, राजा हसित्वाऽऽहमंत्रिन् ! राज्ञां गीतप्रियत्वं गुणः, अहो ! तव चतुरता, मंत्र्याह- देव ! अत्यासक्तत्वं दोषः, ‘जह अग्गीइ लवोवि हु, पसरंतो दहइ गामनगराई। इक्किक्कमिंदियंपि हु, तह पसरतं समग्गगुणे ।।१।। तत एतस्य लघुभ्रातुः सम्प्रति जातस्य राजलक्षणलक्षितस्य यौवराज्यं दीयतामिति मन्त्रिणि कथयत्यपि राज्ञा रामस्यैव दत्तं क्रमेण राज्ञि मृते स एव राजा जातः, कनीयान् भ्राता युवराजा, रामोऽहर्निशं गीतानि शृणोति, स्वयमपि गायति, करोत्यभिनवानि गीतानि, शिक्षयति डुंबादीन्, नित्यं गीतासक्त एवास्ते, न राज्यचिन्तां करोति, अन्यदा तरुणी डुंबीभिर्गीतप्रसक्तस्तद्रूपमोहितोऽवगणय्य निजकुलादिमर्यादा, तां सेवतेऽनाचारी सततं तदासक्त एवास्ते, ततो मन्त्रिप्रभृतिभिर्विचार्य तस्य लघुभ्राता महाबलो राज्ये स्थापितः, रामो निर्द्धाटितो देशात्, विदेशे भ्रान्त्वा मृत्वा हरिणो जातः, गीतश्रवणासक्तो व्याधेन हतः, जातो महाबलपुरोहितस्य पुत्रः, तत्रापि गीतप्रियः अवशश्रवणेन्द्रियः, अन्यदा महाबलनृपेण रात्रौ डुम्बकुटुम्बे गायति पार्श्वे स्थितः पुरोहितपुत्रो भणितः यन्मम निद्रासमये एते गायन्तः स्थाप्याः,
·
·