SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णय २४८ उज्ज्वलवासः परिधानभुषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः ? ततः कामिनीकटाक्षविक्षेपादिक्षोभितोऽवश्यं ब्रह्मचर्यादपभ्रश्यति । अथ यदि कथञ्चित् तत्त्ववेदितया संयमविषये निष्प्रकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभ्रश्यति, तथाऽप्युज्जवलवेषतो लोकेन सोऽस्थाने स्थाप्यते, यथा-नूनमयं कामी, कथमन्यथा आत्मानमित्थं भूषयति ? न खलु अकामी मण्डनप्रियो भवतीति । तुः-पुनर्यो गच्छश्चारित्रगुणरुज्जवलो निरतिचारस्तमेव गच्छं सेवेत, संसारक्षयहेतुत्वात्, तुरेवार्थ, इयं गाथा श्रीमहानिशीथपञ्चमाध्ययनेऽप्यस्तीति । गाथाछन्दः ।।१०२।। जत्थ य मुणिणो कयविक्कयाइ कुव्वंति संजमभट्ठा । तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा ।।१०३ ।। यत्र च मुनयः क्रयविक्रयादि कुर्वन्ति संयमभ्रष्टाः । तं गच्छं गुणसागर ! विषमिव दूरतः परिहरेत् ॥१०३।। व्याख्या - यत्र गणे मुनयो-द्रव्यसाधवः क्रय-मूल्येन वस्त्रपात्रौषधशिष्यादिग्रहणं विक्रयं च-मूल्येनान्येषां वस्त्रपात्रादिकार्पणं कुर्वन्ति, च शब्दादन्यः कारयन्ति अनुमोदयन्ति च. किम्भूता मुनयः ? संयमभ्रष्टाःदूरीकृतचारित्रगुणाः, गुणसागरेति गौतमामन्त्रणं, तं गच्छं विषमिवहालाहलमिव दूरतः परिहरेत् सन्मुनिः, अत्र विषस्योपमा देशसाम्ये, यतो विषादेकमरणं भवति संयमभ्रष्टगच्छात्वनंतानि जन्ममरणानि भवन्तीति । गाथाछन्दः ।।१०३।। आरंभेसु पसत्ता, सिद्धंतपरंमुहा विसयगिद्धा । मुत्तुं मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं ।।१०४ ।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy