________________
२४७
गच्छाचारपइण्णयं शंका यत्र गच्छे, बहवो गीतार्था भवन्ति, हे गौतम ! सगच्छो भणित इति | गाथाछन्दः ||१०० ।। अथ गाथाचतुष्केनोत्सर्जनीयगच्छं दर्शयति
जत्थ य गोयम पंचण्ह, कहवि सूणाण इक्वमवि हुज्जा । तं गच्छं तिविहेणं, वोसिरिअ वइज्ज अन्नत्थ ।।१।। यत्र च गौतम ! पञ्चानां, कथमपि सूनानामेकापि भवेत् । तं गच्छं त्रिविधेन, व्युत्सृज्य व्रजेदन्यत्र ॥१०१॥
व्याख्या-यत्र च गच्छे गौतम ! कथमपि पञ्चानां सूनानां-वधस्थानानां मध्ये एकापि भवेत्, तं गच्छं त्रिविधेन-मनोवाक्कायलक्षणेन व्युत्सृज्यत्यक्त्वाऽन्यत्र सद्गच्छे व्रजेत् । तत्र घरट्टिका १ उदूखलं २ चुल्ली ३ पानीयगृहं ४ प्रमार्जनी ५ चेति पञ्च सूनाः । उक्तं च शुकसंवादेऽपिखंडनी १ पेषणी २ चुल्ली ३ जलकुम्भः ४ प्रमार्जनी ५ पञ्चसूना गृहस्थस्य तेन स्वर्गं न गच्छतीति । गाथाछन्दः ।।१०१।।
सूणारंभपवत्तं, गच्छं वेसुज्जलं न सेविज्जा । जं चारित्तगुणेहि, तु उज्जलं तं तु सेविज्जा ।।१०२ ।। सूनारम्भप्रवृत्तं, गच्छं वेसोज्वलं न सेवेत । यश्चारित्रगुणैः तूज्वलस्तं तु सेवेत ॥१०२॥
व्याख्या - 'सूण०' सूनारम्भप्रवृत्तं-खण्डनाद्यारम्भकर्तारं, तथा वेषेनोज्जवलं वेषोज्वलं, एवंविधं गच्छं न सेवेत, संसारवर्द्धकत्वात्, ननु उज्वलवेषस्य को दोषः ? उच्यते-उज्ज्वलवेषेण विभूषा भवति, विभूषातश्च चिक्कणः कर्मबन्धः, ततश्च संसारपर्यटनमिति, उक्तं च-दशवैकालिकसूत्रे'विभूसावत्तिअं भिख्खू, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ||१|| विभूसावत्तियं चेयं, बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेयं, नेयं ताईहिं सेवियं ।।२।।' तथोज्ज्वलवेषेण ब्रह्मविनाशोऽपि सम्भवी,